________________
१९२
कातन्त्रव्याकरणम्
न्यायेन चेत्, तदयुक्तम् । स्यम्शस्कप्रत्ययविधिषु चरितार्थत्वात् । नैवम् । निरपेक्षत्वात् प्रवृत्तो नदीवद्भावो न निवर्तते व्यक्तित्वाद् वा ।। १५९ ।
[वि० प० ]
स्त्री नदी० | अथ किमर्थमिदं यावता स्त्रीशब्दस्य साक्षादेव नदीत्वमस्ति । तथाहि " स्तृणाते" ( उ०५/१५) इति कृते टनुबन्धत्वान्नदादिलक्षण: 'स्त्रियामी' प्रत्ययः इति, नैवम् । स्त्रीशब्दस्य स्त्री चेति धातुवद्भावाद् इयादेशविषयत्वाद् वक्ष्यमाणवचनाभ्याम् आमि ज्वति च विभाषा प्राप्ता, वद्व्यावृत्त्या च शेषवचने नदीत्वस्याप्राप्तिरेवेति वचनमिदमुच्यते । तच्चानपेक्षमिह निमित्तस्यानभिधानात् । अथानन्तरत्वात् टादाविति कथन्नानुवर्तते इति चेत्, नैवम् । सत्यामपि टादावित्यनुवृत्तौ पारिशेष्याद् ङवत्येव नदीवद्भावस्य प्रयोजनम्, आमि च विशेषविधानात् । ततो ह्रस्वश्च ङवति, तदनन्तरं स्त्री चेति विदध्यात् । विकल्पोऽपि वचनबलादेव न भविष्यति । अन्यथा इयस्थानित्वात् पूर्वेणैव सिद्धम् । ततो विपर्ययविधानादनपेक्षमिति गम्यते ।
यच्च विभक्तावित्युक्तं वृत्तौ तदुद्विभक्तिमन्तरेण लिङ्गं न संभवति । तेन 'बहुस्त्रीकः कलिङ्गः' इति बहुव्रीहौ नदीलक्षणः को भवति । तथा निरपेक्षत्वात् पूर्वमेव नदीत्वं प्रवृत्तं स्यात्, पश्चात् प्रत्यय इति कुतो 'ह्रस्वश्च ङवति, स्त्र्याख्यावियुवौ वामि' इति विकल्पोऽपीत्याह - विकल्पमपि बाधते । येन नाप्राप्तिन्यायेन विकल्पस्य बाधेति नायं परिहारोऽन्येषु स्यम्शस्कप्रत्ययेषु चरितार्थत्वादिति ।। १५९ ।
[क० च०]
स्त्री० । स्त्र्यर्थो न गृह्यते, 'आशिषि च' इति ज्ञापकात् । वद्ग्रहणस्य सादृश्यात् स्त्रियमतिक्रान्ताय ‘अतिस्त्रियै' इत्यत्र 'एकदेशविकृतमनन्यवत्' (कात० प० १ ) इति न्यायान्न भवतीति । ङवत्येवेति । ननु कथमिदमुक्तम्, यावता टाद्यनुवृत्तौ यथा ङवति प्रयोजनमस्ति, तथा आमि परेऽपि “आमि च नुः” (२।१ । ७२ ) इत्यनेन न्वागमोऽस्ति प्रयोजनमित्याह - “आमि च” इति । चकारः पुनरर्थे आमि परे पुनः " स्त्र्याख्यावियुवौ बामि” (२।२।४) इत्यनेन विकल्प एव विशेषोऽस्तीत्यर्थः । ननु स्त्री नदीवदित्यनेन स्त्रीशब्दमादाय नदीवद्भावेऽपि विशेषविधानमस्ति चेत्, नैवम् । अभिप्रायापरिज्ञानाद् विशेषविधानाद् विशेषेणोपादानादित्यर्थः । तथाहि - " ख्याख्यावियुवौ