________________
नामचतुष्टयाध्याये द्वितीयः सखिपादः
१९३
बामि” (२ । २ । ४) इत्यत्र समासेन टाद्यनुवृत्तौ सत्यामपि ङववचने "हस्वश्च वति" (२।२।५ ) इत्यनेन नदीवद्भावविधानादामीत्येव लभ्यते । यत् पुनराम्विधानं तद्विशेषविधानमित्यर्थः ।
यद् वा "स्व्याख्यावियुवौ वामि” (२।२।४) इत्यत्राम्ग्रहणं " हस्वश्च ज्वति" (२।२।५) इत्यत्र चकारकरणम् अनयोर्यद्विशेषेणोपादानं तद्विशेषविधानमित्यर्थः । अन्यथोभयोरपि सूत्रयोराम्ग्रहणं चकारश्च व्यर्थमेव स्यात्, टाद्यनुवृत्तावेव साध्यस्य सिद्धेः । ननु यथामि च विशेषविधानमुच्यते तथा ङवत्यपि विशेषविधानं कथन्न स्यात् । तथाहि- टाद्यनुवृत्तौ सत्यां पूर्वसूत्रेणैव इयुवस्थानयोरामि सिद्धत्वात् । " ह्रस्वश्च उन्नति” (२।२ । ५) इत्यत्र ङवतीति लभ्यत एव यत् पुनर्डवद्ग्रहणं तद् विशेषविधानार्थमिति । ननु कथमिदमुच्यते आम्ग्रहणेनैव टाद्यनुवृत्तेर्व्यवहितत्वात् सामान्यं वा निमित्तम् आम् वा निमित्तं स्यात्, तद्बाधनार्थं ङवद्ग्रहणम् । तत् कथं विशेषविधानार्थं भविष्यति, नैवम् । ‘विशेषातिदिष्टः प्रकृतं न बाधते' (कात० प० १९) इति न्यायात् टादिरेवानुवर्तिष्यते कुतः सामान्यं वा आम् वा निमित्तं स्यात्, तर्हि टाद्यनुवृत्तौ आमोऽपि संभवाद् आमि परे ह्रस्वस्य विभाषया नदीवद्भाव एव दूषणं तन्निवृत्त्यर्थं ङवद्ग्रहणं कथं विशेषविधानार्थं भविष्यति । नैवम्, आमि परतो ह्रस्वस्य विभाषया नदीवद्भावेऽपि निष्प्रयोजनं दूषणाभावात् (तथाहि ह्रस्वान्तस्य नदीवद्भावः पक्ष इति विशेषः) । ह्रस्वस्य नदीवद्भावद्वारा वा उभयथापि 'बुद्धीनाम्' इत्यादिप्रयोगस्य सिद्धिरिति । नैवम्, दूषणस्य सत्त्वात् । तथाहि ह्रस्वद्वारैवामि नागमसिद्धे यत् पुनर्विकल्पपक्षे नदीवद्भावः क्रियते तन्नदीद्वारैव नागमार्थमिति ।
तथा च 'बुद्ध्याम्, बुद्धीनाम्' इति रूपद्वयं स्यात् तस्मात् टादिनिवृत्त्यर्थं ङवद्ग्रहणमवश्यमेव कर्तव्यम् । कुतो विशेषबाधनार्थं भविष्यति । अतः पत्रिकायामपि आमि च विशेषविधानादिति यदुक्तं तद् युक्तमेवेति साम्प्रदायिकाः । तदसत्, टाद्यन्तनिविष्टत्वादानुषङ्गिकन्यायेन प्रवर्तमानस्यामो ह्रस्वनिबन्धनन्वागमबाधकत्वाभावात् । तस्मात् टाद्यनुवृत्तौ यत् पुनर्डवद्ग्रहणं तद्विशेषविधानार्थमिति पूर्वपक्षोऽविरुद्ध एव । तस्मादयमेव सिद्धान्तः यद्यपि क्रमेणोभयत्रापि विशेषविधानत्वं संगच्छते, तथापि आम्येव विशेषविधानता कल्प्यते, न तु ङवतीति ।
यद् वा आमि विशेषविधानकल्पने "स्त्री नदीवत् " ( २ । २ । ३) इत्यनेन ङवत्सु बहूदाहरणानि सम्भवन्ति, ङवतीत्यस्य विशेषविधानकल्पने तु "स्त्री नदीवत्"