________________
नामचतुष्टयाप्याये वितीयः सविपादः
१५९. स्त्री नदीवत् [२१२॥३] [सूत्रार्थ] किसी विभक्ति के पर में रहने पर 'स्त्री' शब्द को नदीवद्भाव होता है ।। १५९। [दु० वृ०]
स्त्रीशब्दो नदीवद् भवति विभक्तौ । हे स्त्रि!, स्त्रिय, स्त्रीणाम् । विकल्पमपि बाधते ।। १५९।
[दु० टी०]
स्त्री०। स्तृणाते ट्, टनुबन्धत्वादीः स्त्रीति स्वरूपमेव गृह्यते, न तूपचरितः स्त्यर्थाभिधायी स्त्रीशब्दः, "आशिषि च" (३।५।२२) इति निर्देशाद् इयादेशत्वादामि
वति च विभाषा प्राप्ता । वद्व्यावृत्त्या शेषे च नदीत्वस्याप्राप्तिरेवेति वचनमिदमनपेक्षमारभ्यते । यच्चोक्तम् ‘विभक्ताविति', तद्विभक्तिमन्तरेण लिङ्गं न संभवतीति । तेन 'बहुस्त्रीकः कलिङ्गः' इति कप्रत्ययः स्यात्, अथवा न चेह "नवृदन्ताद् बहुव्रीही कः" इति वचनमस्ति, अपि तु बहुललक्षणः क इति न दुष्यति । ननु कथमिहानन्तरं टादाविति नानुवर्तते, नैवम् । टादावित्यनुवर्तमानेऽप्यामि ङवति नदीवद्भावस्य प्रयोजनाद् "हस्वश्च म्वति"(२।२।५) तदनन्तरं स्त्री चेति विदध्यात् । एतेनोत्सर्गापवादक्रमप्रतिपत्तिरपि स्यात्, अत एव विपर्ययं विदधाति ।अतोऽनुमीयते इदमनपेक्षमिति, तत्सहचरितमसमासग्रहणमपि नानुवर्तते । इष्टत्वादधिकारस्येति वा, तेन तदन्तविधिना 'हे परमस्त्रि, परमस्त्रीम्, परमस्त्रीः पश्य' इति ।
कार्यातिदेशोऽयं स्त्रीशब्दो नदीनिबन्धनकार्यभाग् भवतीत्यर्थः । व्यपदेशातिदेशेऽपि न दोषः । व्यपदेशः संज्ञा, सा पुनरिहासती अतिदिश्यते । तर्हि मुख्यैव सज्ञा आस्ताम्, किं वद्ग्रहणेन ? चेत्, नैवम् । मुख्यसंज्ञायां सत्यां स्त्रियमतिक्रान्ताय ‘अतिस्त्रये, अतिस्त्रेः, अतिस्त्रौ' इत्यग्निकार्यं न स्यात् । एकदेशविकृतस्यानन्यवद्भावान्नदीत्वमेवेति । ऐप्रभृतीन्येव भवितुमर्हन्ति तस्माद् वद्ग्रहणं सादृश्यार्थम् । सादृश्यं पुनरीकारमन्तरेण न संभवतीति समीहितं सिद्धम् उभयातिदेशेऽपि, तेन 'स्त्रियाम्, स्त्रियः' इति इयादेशपक्षे अम्शसोरादिलोपो न भवतीति । ईकारावस्थायामेव नदीकार्यं पश्चादियादेश इति निश्चितम् । ननु कथमयं विकल्पं बाधते येन नाप्राप्ति