________________
१८८
कातन्त्रव्याकरणम् निषेधुमशक्यत्वात् । तस्मादेकवाक्यतायां सत्यामग्निशब्देनात्रापि सझैवोच्यते, न त्विकारव्यक्तिरिति । अतः सखिस्थ इकारो नश्यतीत्यर्थो न घटत एव, किन्तु संज्ञानिषेधः संभवतीत्याह - संज्ञा प्राप्ता निषिध्यते इति । अर्थादिति सखिसमुदायस्याग्नित्वासंभवादित्यर्थः । अथ "न सध्युरिष्टादावग्निः" इत्यत्र पूर्वपक्षद्वयम् - एकस्तावदिकारकरणम् अन्यश्च सख्युरिति षष्ठीविधानम्, तत्र इकारखण्डनार्थं सिद्धान्तयति- अथेति । बितीयपक्षं सूचयति- तथापीति । इकारग्रहणं मा कार्षीः, षष्ठी केन निवार्यतामित्याहसखिस्थ इकार इत्यादि । सखिस्थ इत्युपचारेणैव षष्ठ्यर्थो लभ्यते इति भावः । __ नन्वनुकरणनिर्देशोऽयमिति, तत्रानुकरणमेव विचार्यते । तच्च द्विविषम् शब्दानुकरणमनुकरणं चेति । यत्र शब्दमात्रप्रतीत्यर्थमनुक्रियते उच्चार्यते तच्छब्दानुकरणम् । यत्रार्थमात्रप्रतीत्यर्थं शब्दोऽनुक्रियते तदर्थानुकरणम् । तत्रार्थे कार्यासम्भवात् तद्वाचिनि शब्दे कार्य क्रियते इति कश्चित् । तन्न | अर्थप्रतीत्यर्थमुच्चार्यमाणत्वाद् 'घटमानय' इत्यादीनामपि अनुकरणत्वं स्यात् । एवं च सत्यर्थानुकरणपदस्य व्यावृत्ति - स्तीति, तस्मात् सार्थकशब्दस्यानुकरणमर्थानुकरणम् , निरर्थकशब्दस्यानुकरणं शब्दानुकरणमिति । एतच्च "तिच्यपवर्गे" (४।६।४३) इत्यत्र टीकायां वक्ष्यति, तत्र सार्थकानुकरणे प्रकृतिवदनुकरणं भवतीति यौक्तिक एवायं पक्षः। तथाहि, प्रकृतेः सार्थकत्वेन तत्र यत् कार्यं प्राप्नोति तत् कार्यं तदनुकरणेऽप्यतिदिश्यते, शब्दानुकरणे प्रकृतेर्निरर्थकत्वात् कार्यं तत्र न प्राप्नोति । कुतस्तदनुकरणे कार्यमिह शब्दानुकरणेऽस्य ग्रहणात् “सख्युश्च"(२।२।२३) इत्यन्न भवति । ननु यदात्र सखिरिति निरर्थकानुकरणं कथन्तर्हि सार्थक कार्यनिषेधः क्रियते ? सत्यम् । निरर्थकानुकरणे पदं निष्पाद्य सूत्रवैयर्थ्यभयात् तत्तद्वर्णानुपूर्वविशिष्टसार्थकशब्दे लक्षितलक्षणया पश्चात् पदाध्यारोपः क्रियते, ततश्च सार्थक एव शब्दे कार्यनिषेध उपपद्यते ।
___ अन्यस्त्वाह-सखिशब्देनात्र सामान्येन सकारोत्तरखिकारविशिष्टः शब्द एवानुक्रियते । सामान्यं चात्र सार्थकनिरर्थकसमुदायत्वम् । प्रसिद्ध शास्त्रप्रवृत्तिायसीति न्यायात् सार्थकशब्दमादायैव सूत्रप्रवृत्तिरिति । तर्हि अनेनैव न्यायेन सार्थकशब्दम् आदाय प्रकृतिवदनुकरणम् इत्यस्य विषयत्वात् कथं "सख्युश्च" (२।२।२३) इत्यन्न भवति ? सत्यम् । अत एव सखिरिति निर्देशाद् युगपत् सार्थकनिरर्थकयोरनुकरणे निरर्थकाश्रितकार्यमेव भवति, न तु सार्थकाश्रितमिति । यद् वा 'प्रकृतिवदनुकरणमित्यत्रार्थवद्