SearchBrowseAboutContactDonate
Page Preview
Page 224
Loading...
Download File
Download File
Page Text
________________ १८७ नामचतुष्टयाप्यापे वितीयः सखिपादः इत्यनुकृष्यते उत्तरार्थमेवं चेत् किमादिग्रहणेन टाडयोरित्येवं ब्रूयात् । एतेनादिग्रहणव्याप्तेः प्रयोजनं चिन्त्यते, न तु लाघवमिति । नैतदेवमस्ति प्रयोजनम्, भूपते पताविति पतिरसमासे एवाग्निर्न भवति, समासे तु भवत्येव इत्यवधारणार्थम् । अत एवादिग्रहणादग्निरिति तत्र संबध्यते इति स्थितम् । टादाविति किम् ? सखीन् । "शसोऽकारः सश्च नोऽस्त्रियाम्" (२।१।५२) इति भवति ।। १५७। [वि० प०] न सखि० । "इदग्निः" (२!१।८) इत्यनेनाग्निसंज्ञा प्राप्ता अनेन प्रतिषिध्यते । ननु कथमयं निर्देशः, यावता इकारोकारयोरेवाग्निसंज्ञा न तदन्तस्येति तत्र निश्चितम्, अतो न “सख्युरिष्टादावग्निः" इति कर्तुमुचितम्, सख्युरिकारोऽग्निर्न भवतीत्यर्थः । अथ समुदायस्य प्रतिषेधेऽप्यर्थादिकार एवावसीयते, तथाप्यवयवावयविसंबन्धे षष्ठी केन निवार्यते । सखिस्थः सखिरिति । सख्यौ तिष्ठतीति सखिस्थः “नाम्नि स्पश्च" (४।३।५) इति कप्रत्ययः । सखिस्थ इकारः सखिरुच्यते, उपचारात् । यथा 'मञ्चाः क्रोशन्ति' इति मञ्चस्थाः पुरुषाः मञ्चशब्देनोच्यन्ते । ननु तथापि कथमीदृशो निर्देशो यावता "सख्युश्च"(२।२।२३) इति वचनादन् प्राप्नोति । नैवम्, अनुकरणनिर्देशोऽयम् । अनुकरणं चानुकार्याकारं स्यादिति कथं विकृतिः अनुकरणमेवान्यथा न स्यादिति भावः । 'प्रकृतिवदनुकरणम्' (व्या० प० वृ० ८६) इत्यस्य पुनरर्थपदार्थानुकरणं विषयः शब्दपदार्थस्य चेदं सखिशब्दस्यानुकरणमित्यदोषः । व्यञ्जने अग्निसंज्ञायाः प्रयोजनाभावात् प्रतिषेधो वार्थः । अर्थात् स्वरे परे प्रतिषेधो विज्ञायते इत्याह - टादौ स्वर इति । 'सख्या, सख्ये' इति अग्नित्वाभावात् 'टा ना' डे इत्येकारश्च न भवति ।। १५७। [क० च०] न सखि० । ननु संज्ञासूत्र एवाग्निशब्दः स्वरूपपरो भवितुमर्हति । कार्यकाले तु संज्ञिपर एव संभवति । एवं च सति "टादावग्निः" सखिस्थो न भवतीत्यर्थे सखिस्थ इकारो विनश्यतीत्यर्थः कथन्न स्यात् ? सत्यम् । पर्युदासोऽयं नञ्, स चान्योऽभाववाची, ततश्च संज्ञासूत्रेणैकवाक्यताऽवश्यं कर्तव्या । तथा च टादौ सखिस्थो य इकारस्तदन्योऽन्यभाववान् इकारोऽग्निर्भवतीति । अन्यथा एकवाक्यतां विना "इदग्निः " (२।१।८) इत्यनेन प्रथमत एव प्राप्तौ सत्यां वचनशतेनापि संज्ञाया
SR No.023087
Book TitleKatantra Vyakaranam Part 02 Khand 01
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year1998
Total Pages630
LanguageSanskrit
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy