________________
अथ द्वितीये नामचतुष्टयाध्याये द्वितीयः सखिपादः
१५७. न सखिष्टादावग्निः [२।२।१] [सूत्रार्थ]
तृतीयाविभक्ति- एकवचन ‘टा' आदि स्वर के परवर्ती होने पर,सखिशब्दस्थ इकार को अग्निवद्भाव नहीं होता है ।। १५७।
[दु० वृ०] सखिस्थः सखिष्टादौ स्वरे नाग्निर्भवति । सख्या, सख्ये ।। १५७। [दु० टी०]
न स० । इदुदग्निरित्यनेनाग्नित्वं प्राप्तं "न सखिष्टादावग्निः" इत्युच्यते । ननु तत्र हि इकारोकारयोरेवाग्निसंज्ञा न तदन्तस्येति । "न सख्युरिष्टादावग्निः" इति कर्तुमुचितम् | सख्युरिकारोऽग्निर्न भवतीति । अथ सामर्थ्यादिकारोऽवसीयते किमिकारग्रहणेन चेत्, तथाप्यवयवावयविसम्बन्धे षष्ठी केन निवार्यते इत्याह-सखिस्थः सखिरिति । सखिस्थ इकारः सखिरुच्यते, उपचारात् । यथा ‘मचाः क्रोशन्ति' इति । सख्युरन् न भवतीति रूपान्यत्वे ह्यनुकरणमेव न स्यात् । विधिमुखेनार्थात् संज्ञा निषिध्यते । यथा 'नायं गौः' इत्युक्तेऽन्यद्रव्यस्य गोसंज्ञा नास्तीत्यवसीयते इति नास्ति प्रकरणभेदः, तदन्तस्यापि प्रतिषेध एवेति निश्चितम् | ___ बहवः सखायो यस्य (तेन) बहुसख्या, (तस्मै) बहुसख्ये इति । कथम् अतिसखेः' इति भाष्यचोदितं चैतत् । सखीं स्त्रियमतिक्रान्तस्यातिसखेरित्युपसर्जनत्वाद् ह्रस्वत्वं परनिमित्तादेशः पूर्वस्मिन् स एव स्त्रीकार एवायं न सखिस्थ इकारः इति कुतः प्रतिषेधप्रसङ्गः स्यात्, विभक्तिषु च 'लिङ्गग्रहणे लिगविशिष्टस्यापि ग्रहणम्' (कात० प० १७) इति नाद्रियते । अत एव 'न सखिपत्योष्टादावग्निरसमासे' इति विदध्यात् । टा एवादिर्यस्यासौ टादिस्तद्गुणसंविज्ञानो बहुव्रीहिः, तत्पुरुषे हि शसीति विदध्यात् । आदिग्रहणमिहोत्तरार्थं च । तेन सख्युः, पत्युरित्यग्निलक्षणमेत्वं न स्यात् । नैवम्, तत्र प्रधानमलोप एव वाक्यार्थः क्रियते "गोश्च" (२।१।५९) इत्यत्र चकारेण 'इरेदुरोद्'