________________
१६५
नामचतुष्टयाध्याये प्रथमो धातुपादः [क० च०]
धातोः । कर्तेत्यत्र नास्य विषयः । “आ सौ सिलोपश्च" (२।१।६४) इत्यनेन बाधितत्वात्, घुटि चेतिवत् । ननु धातोस्तृशब्दमादायास्यापवादत्वाद् आत्वविधिश्चानेन कथन्न बाध्यते ? सत्यम् । 'अनन्तरस्य विधिः प्रतिषेधो वा' (कात० ५० १८) इति न्यायात् संनिहितत्वाद् अर्विधेर्बाधाया एवौचित्यात् । “यः करोति स कर्ता" (२।४।१४) इति ज्ञापकाद् वा इत्याह – अरोऽपवाद इति वृत्तिः। धातोर्विहितस्येति किमिति वृत्तिः। सम्बन्धे षष्ठ्येवास्ताम्, ततश्च यथाकथंचित् संबन्धो यातृशब्देऽप्यस्तीति व्यावृत्तिः संगच्छते । ननु तथापि धातोर्विहितस्येति किमर्थमुच्यते, यावता "स्वस्रादीनां च" (२।१।६९) इत्यत्र नप्त्रादीनामेवेति नियमबलाद् उणादिप्रत्ययं प्रति आरादेशस्य व्यावृत्तिरस्तीति ‘यातरः' इत्यादिकं सिध्यति ? सत्यम् । यथा सादृश्यादुणादिकं प्रत्यग्रिमवचनाद् व्यावृत्तिरित्युच्यते तथा तृशब्दं प्रति च सादृश्याद् व्यावृत्तिः, न तु 'यातरः' इत्यादौ तत्सूत्रीयनियमव्यावृत्तिः, नियमप्रत्ययान्तत्वाभावात् । अतस्तृशब्दस्येति किम् ? 'ननान्दरौ, ननान्दरः' इत्यपि व्यावृत्तिः संगच्छते । धातोरिति पञ्चमीयमिति पनी। ननु पञ्चमीयमिति कथं निश्चितं चेत्, शब्दग्रहणमेव पञ्चमीनिश्चये कारणम् । तथाहि शब्दस्तु वाचक उच्यते कर्नाद्यर्थवाचकः यस्तृशब्दः, स च तृन्स्वरूपो विहितविशेषणं विना न घटते इत्याह – अतो विहितविशेषणमिति । ___शर्ववर्मणेत्यादि । ननु कथं निष्ठादिषु तृन्प्रत्ययस्य परिगणनमिति चेत्, प्रकृतिप्रत्ययविभागेन प्राप्तम्यैवोदाहरणं बोद्धव्यम्, तर्हि प्रकृतेऽपि दीयतां दृष्टि: ? सत्यम् । वररुचिना तृनादिकं पृथगेवोक्तम्, ततश्च वररुचिशर्ववर्मणोरेकबुद्ध्या दुर्गसिंहेनोक्तमिति कतमोऽयं पूर्वपक्षः, शर्ववर्मणानुक्तत्वात् । ननु स्त्र्यसम्बुद्धिघुटोरित्यनुवृत्तौ "तृवत् क्रोष्टुः" (अ० ७।१।९५) इति पाणिनिसूत्रम् । भवन्मते तदभावात् संबुद्धौ घुटि नित्यं तृजन्तस्यैव प्रयोगः स्याद् इत्याह – सम्बुद्धावित्यादि । ननु तथापि "नपुंसकात् स्यमोोपे" (२।२।६) च दृश्यते तुन्प्रत्यय इति किं काकुवादेन ? यावता क्रुशस्तुन् घुटि स्त्रियामित्युक्ते नपुंसके स्यमोर्घटत्वाभावे नैव तुनस्तस्य प्रयोगः सिद्ध एव ? सत्यम् । अत्र कुलचन्द्रः “नपुंसकात् स्यमोर्लोपे न च तदुक्तम्" (२।२।६) इति प्रतिषेधे प्राप्ते नाम्यन्तचतुरां वेति पक्षे तृजन्तप्रयोगनिरासार्थं तुन् दृश्यते इति, तन्न । घुट्त्वाभावेनैव तृजन्तप्रयोगस्य निरासात्, स्वमते तृजादेशाभावाच्च । तस्मादिदमेव युक्तमुत्तरं तद् विवृणोमि - बहवः क्रोष्टारो यस्मिन् वने इति