________________
कातन्त्रव्याकरणम्
वाक्येऽवश्यंभविष्यतो घुटो विषयम् आश्रित्य तृजन्तस्य प्रयोगे प्राप्ते स्यमो.पे च बुद्धिस्थीभूते तुन् दृश्यते इति यदुक्तं तद् युक्तमेव । एतेन. 'शृगालवश्चकक्रोष्ट्रफेरुफेरवजम्बुकाः' इति देश्यमपास्तम् । समाहारत्वादेव 'शृगालवञ्चकक्रोष्टु' इति पृथग् द्वन्द्वे सिद्धत्वात्, तर्हि 'जम्बूको क्रोष्टुवरुणौ' इत्यत्र का गतिरिति चेत् “घुटि स्त्रियाम्" इत्यत्र घुटीति सति भावसप्तमी। घुटि सति क्रुशधातोर्विहितस्तुन् न प्रयोगवान् । घुटो लोपे तु तुनः प्रयोगः स्यादेव । यतो घुट्संज्ञा तुनस्तस्य प्रयोगं प्रति प्रतिबन्धिका | प्रतिबन्धकताभावे तु तुनस्तस्य प्रयोगः स्यादेव । एतेन साक्षाद् घुटि तृजन्तप्रयोग इति घुटीति भावसप्तम्या विवक्षावशात् । तस्माल्लिङ्गात् स्यादीनामवश्यंभावाद् अविनाभावसंबन्धाच्च स्यादेर्लिङ्गदशायामेव तुनन्तो निवर्तते, घुटः सत्त्वात् । यद्यपि प्रत्ययलोपलक्षणन्यायात् प्रत्ययनिबन्धनतृचः प्रयोगो भवितुमुत्सहते । तदपि भावसप्तम्यैव निरस्तं घुटः स्थितेरभावात् । प्रत्ययलोप इत्यस्य तु भावसप्तम्यां विषय एव नास्तीति सम्प्रदायः।
यत्तु पत्रीकृतोक्तम् - घुटीति विषयसप्तमीयमिति, तदपि वर्तमानविषयत्वेनैव भावसप्तम्या अवान्तरत्वात् । ननु तथापि “नपुंसकात् स्यमोलपि च" (२।२।६) इति यदुक्तं तदतात्पर्यकम् । यावता उक्तरीत्या बहुक्रोष्टुभिरित्यत्रापि तुन् दृश्यते इत्यपि वक्तुं युज्यते, नैवम् । स्थितास्थितयोरघुघुटोर्विषये गृहीतव्ये स्थितस्याघुटो विषय एव ज्यायान् । अतोऽघुविषयमाश्रित्य तुन् निर्विवाद एव । यत्र ‘बहुक्रोष्टु वनम्' इत्यादौ घुडघुटोरुभयोरेव लोपः क्रियते तत्रान्तरङ्गं सन्निहितं च घुटमाश्रित्य तृजन्तस्य प्रयोगे प्राप्ते तुन् दृश्यते इति युक्तमेवोक्तम् । यद् वा चकारेणैव बहुक्रोष्टुभिरित्यत्रापि तुन् दृश्यते इति सूचितम् । यद् वा वृत्तौ घुट्पदं विभक्त्यन्तरमतिरस्कृतघुटपरम्। अत्र तु भिसादिभिरेव तिरस्कृतत्वाद् दृश्यते इति नोक्तम्, तर्हि बहवः क्रोष्टारो यस्मिन् इति वाक्ये कथं तृजिति चेत्, न | स्वपदेनैव वाक्यमिति लो दोषः ।
परमते तु अन्तर्वर्तिनी घुड्विभक्तिमाश्रित्य तृजादेशे प्राप्ते तुन् दृश्यते इत्युक्तम्, तर्हि तन्मते कथं 'बहुक्रोष्टुभिः' इत्यत्र नोक्तम् - तुन् दृश्यते इति, नैवम् । अन्तर्वर्तिविभक्त्याश्रयणं न सार्वत्रिकम्, किन्तु प्रयोगानुसारेणैव । तेन ‘स्वद्भ्याम्' इत्यादौ "अपश्च" (२।२।१९) इति दी| न भवति, युवावादेशादिकं तु भवत्येवेति हेमकरादिहृदयम् । ननु यन्मते तृजादेशः क्रियते तन्मतेऽन्तरङ्गे कप्रत्यये कर्तव्ये बहिरङ्गो घुडाश्रिततृजादेशोऽसिद्धः स्यादिति को न भवति । भवन्मते घुड्विषये तृच्प्रयोगे कथम् ऋदन्तलक्षणः को न स्यादिति हृदि कृत्वाह - कथन्तीति ।। १४७।