________________
१६४
कातन्त्रव्याकरणम् इति कथन्न कृतमिति चेत्, नैवम् । शर्ववर्मणा तृन्तृचौ विहितौ येनैवमसौ निर्दिश्यते, तर्हि विहितविशेषणमप्ययुक्तमिति चेत्, सत्यम् । शर्ववर्मणा कृत्प्रत्ययविशेषविधानं नाम न कृतम्, अभिधानतः। प्रकृतिप्रत्ययविभागकल्पना आदृतैव इत्यदोषः। “नञि च नन्देः" (उ० २।३९) इति ऋन्, दीर्घश्चेति वर्तते, "नस्य तत्पुरुषे लोप्यः' (२।५।२२) इति नजो नकारलोपो न भवति, संज्ञाशब्दत्वात् । “सितनिगमिमसिमव्यविधाञ्कुशिभ्यस्तुन्” (उ० १।२६) इत्यौणादिकः क्रुशेस्तुन् विहितः, तदा प्रयोगनिरासार्थम् "तृवत् क्रोष्टुः" (अ० ७।१।५५) इति वक्तव्यमित्ययुक्तम् । उणादयो हि बहुलं भवन्ति, ततो घुटि विषये स्त्रीलिङ्गविषये च क्रुशेः परस्तुन्प्रत्यय एव नास्ति, अतस्तृचैवं सिद्धमित्याह - क्रुशस्तुन् इत्यादि । संबुद्धौ नपुंसकात् स्यमोर्लोपे च दृश्यते तुन्प्रत्यय इति प्रयोगो यथा - हे क्रोष्टो !, बहुक्रोष्टु वनमिति । ।
ननु क्रोष्ट्रशब्दस्य मृगवाचित्वात् तदादेशोऽपि मृगवाचीति युज्यते एव वक्तुम्, तृचि पुनरुत्पन्ने क्रोशनक्रियाभिसंबन्धोपस्थितकर्तृत्वमात्रमर्थः स्यादित्ययुक्तम् । क्रियानिमित्तोऽपि तृजन्तो रूढिवशात् मृग एव वर्तिष्यते । यथा- 'परिव्राजकः, दात्रम्, प्राकारः, प्रासादः' इत्यादयः क्रियानिमित्ता वुणादिप्रत्ययान्ता अप्यर्थविशेषे वर्तन्ते ।
अथैवं मन्यते अविशेषे निर्दिष्टस्य तृचः कथं घुटि स्त्रियां च विशेषे प्रयोग इति, नैवम् । अयमपि दृश्यते । यथा घरतिरयमविशेषेणोपदिश्यते । 'गृ पृ सेचने' (१।२७६) इति अर्थविशेषेणैव प्रसज्यते- 'घृतम्, धर्म, घृणा' इति, तद्वदिहाप्यदोषः । क्रियानिमित्तः पुनरन्यत्र क्रोष्टुशब्दः सर्वत्र प्रयुज्यते एव । यथा- 'क्रोष्टा पुरुषः, क्रोष्ट्री स्त्री, क्रोष्टु कुलम्, क्रोष्ट्रभ्याम्, क्रोष्ट्रभ्यः' इत्यादि । कथं तर्हि 'प्रियकोष्टा पुरुषः' इत्यत्र बहुव्रीहौ ऋदन्तलक्षण: को न भवति -- बहुकर्तृकः प्रासाद इत्यादि । सत्यमेतत् । किन्तु नैतत् सूत्रमस्ति, अपि तु बहुलार्थः । तेन मृगवाचिक्रोष्ट्रशब्दाद् बहुव्रीहौ को न भवतीति । अत्र बहुलार्थत्वादेव वेदितव्यं शसादावित्यादि । शसादौ स्वर इत्येवमादय इति क्रोष्ट्रे, क्रोष्टवे, क्रोष्टुः, क्रोष्टोरित्येवमादयोऽपीत्यर्थः । व्यञ्जनविषये तृन्प्रत्यय एव 'क्रोष्टुभ्याम्, क्रोष्टुभिः' । तथा क्रोष्टुयोगात् क्रोष्टुने अरण्याय, क्रोष्टुनोऽरण्यात्, क्रोष्टुनोऽरण्यस्येति नपुंसके न्वागमविषयत्वाद् व्यञ्जनादित्वमिति । यस्तु “विभाषा तृतीयादिष्वचि" (अ०७।१।९७) इत्याह । तन्मते तृतीयादिष्विति वचनात् शसि नित्यं क्रोष्टून् इति ।। १४७।