________________
१६१
नामचतुष्टयाध्याये प्रवमो पातुपादः
१४६. घुटि च [२।१।६७] [सूत्रार्थ]
घुट्संज्ञक (सि, औ जस्, अम्, औ, नपुंसकलिङ्ग में जस्-शस्, २।१।३,४) प्रत्ययों के परवर्ती रहने पर ऋकारान्त लिङ्ग के अन्त्यावयव ऋकार को 'अर्' आदेश होता है ।। १४६।
[दु० वृ०]
ऋदन्तस्य लिङ्गस्यार् भवति घुटि परे । पितरौ । पितरः । घुटीति किम् ? पितॄन् । पृथग्योग उत्तरार्थः ।। १४६ ।
[दु० टी०]
घुटि० । “आ सौ सिलोपश्च" (२।१।६४) इति वचनात् शेषे घुटि विधिरयम् । चकार उक्तसमुच्चयमात्रे । यद्येकयोगः क्रियते तदा ‘कर्तरि' इत्यत्र डिवचनेऽपि अरेव प्रसज्येत ।। १४६।
[वि० प०]
घुटि० । सावात्वेनाघ्रातत्वात् शेषे घुटि विधिरयम् । अर् डिघुटोरित्येकयोगे सिध्यति । किन्तु सह निर्दिष्टत्वादुत्तरत्र डेरप्यनुवृत्तिः स्यात् । घुटो वेष्यत इत्याहपृथगित्यादि ।। १४६।
[क० च०]
घुटि० । सावात्वेनाघ्रातत्वादिति । ननु आत्वविषयता संबुद्धौ नास्ति, "आ च न संबुद्धौ” (२।१।७०) इत्यनेन निषेधात् । तत्र सावस्य विषयत्वे को बाधकश्चेद् भवत्येव पितरित्यत्रास्य विषयता | तर्हि कथं शेष इत्युक्तं चेत् , न । सिमपेक्ष्य शेषत्वं वाच्यम्, किन्तु यत्रासौ सिलोपश्चेति प्रवर्तते तच्छेषत्वमित्यदोषः । घुटीति किम् ? पितॄन् इति वृत्तिः।
अस्यायमाशयः – ननु सूत्रमिदं किमर्थं यावता अर् ङावित्यस्य योगविभागेनैव 'पितरौ, पितरः' इत्यादिप्रयोगः सिध्यतीति योगविभागस्य लक्ष्यानुसारित्वात् ? सत्यम् । लक्ष्यानुसाराद् यथा 'पितरौ, पितरः' इति भवति तथा 'पितरस्तर्पयामास' इति