________________
कातन्त्रव्याकरणम्
१०. चतसृ - आदेशविषयकं कुलचन्द्राभिमतम्
एतेन 'हे प्रियचत्वः' इति कुलचन्द्रेण यदुक्तं तदशुद्धमेव, पाणिनिसम्मत्या श्रीपतिना दूषितत्वात् | कुलचन्द्रदृष्ट्या तु पञ्जिकायां 'हे प्रियचत्वः ।' इति लिखितम्, किन्तु छात्रैः 'हे प्रियचतसृ !' इति बोद्धव्यम् (क० च० २।२।६) ।
११. बकारस्योकारादेशविषयकं कुलचन्द्रादेरभिमतम्
१२
वृत्तौ यूनीति पाठो नास्तीति केचित् । 'यूनी काममियं दुनोति हृदयं वैधव्यभावाद् वधूः' इति कुलचन्द्रः । अन्ये तु " यूनस्तिः " ( अ० ४ | १ | ७७ ) इति नदादिविहितस्य ईकारस्य बाधकस्तिप्रत्ययोऽस्तीति तेन युवतिरित्येव प्रयोगः । ....... यन्मते यूनीति पाठस्तन्मते "यूनस्तिः" इत्यत्र वानुवृत्तिरित्याशयः (क० च० २।२।४७) ।
,
१२. लोपविषयकमभिमतं विद्यानन्दस्यान्यस्य च आचार्यस्य
चतुर्भाग इति । चतुर्थश्चासौ भागश्चेति । समासे पूरणप्रत्ययस्य लोप इति विद्यानन्दः। अन्यस्तु चतुर्थो भागश्चतुरित्युपचारात् (क० च० २ | ३ | ४ ) |
सूत्ररचनादिविषयकौ उत्कर्षापकर्षौ समीक्षातोऽवगन्तव्यौ । शब्दसाधुत्वप्रक्रियाधिगमाय रूपसिद्धिः संक्षेपेण दर्शिता, तत्र तान्येवोदाहरणानि संगृहीतानि यानि वृत्तिकारेण दुर्गसिंहेन दर्शितानि ।
'वृत्ति - टीका - पञ्जिका – कलापचन्द्र' इति व्याख्याचतुष्टयस्य तु मुख्यतः सम्पादनमत्र वर्तत एव, परं कातन्त्रपरिशिष्टस्येह योगोऽविस्मरणीयस्तस्मात् प्रथमपरिशिष्टे संबद्धानि नाम - षत्व - णत्वप्रकरणगतानि एकोननवत्यधिकशतसंख्याकानि कातन्त्रपरिशिष्टसूत्राणि संकलितानि । अन्यान्यपि सप्त परिशिष्टानि ग्रन्थेऽस्मिन्नि बद्धानि उद्धृतग्रन्थग्रन्थकारविशिष्टशब्दव्युत्पन्नशब्दादिसुपरिचयाय ।
कृतज्ञताप्रकाशः
इदमवगन्तव्यं यद् व्याख्याचतुष्टयोपेतस्य समीक्षात्मकस्य चास्य कातन्त्रव्याकरणस्य मुद्रणं प्रायेण चतुः सहस्रपृष्ठेषु पूर्णताम्प्राप्स्यतीति । तत्र सन्धिप्रकरणात्मकः प्रथमो भागः सार्धचतुःशतपृष्ठात्मक ः १९९७ तमे यीशवीये वर्षे प्रकाशितः । द्वितीयभागस्य नामचतुष्टयाध्यायीयप्राथमिकपादत्रितयात्मकं प्रथमखण्डमिदं सपाद