________________
भूमिका
५. अभिमुखीकरणार्थविषये कस्यचिदाचार्यस्य मतं नोचितम्
अभिमुखीकरणं संमुखीकरणमिति कश्चित् । तन्न, लोके व्यवहितस्यापि आभिमुख्यदर्शनात् । तस्माद् अभिमुखीकरणं कार्योन्मुखीकरणमित्यर्थः । तथा च कुमारे ( कु० सं० ३।७५ ) - ' शून्या जगाम भवनाभिमुखी कथञ्चित्' (क० च० २।१।५) इति ।
६. हस्वविधिविषये केषांचिदाचार्याणामभिमतम्
औणादिकस्य नदीसंज्ञकस्य ह्रस्वो नेष्यते इति केचित् । तस्माद् ' हे तन्त्रीः ! हे लक्ष्मीः' इति सिध्यति । दृश्यते च ' हे लक्ष्मीः ! स्या दरिद्राणां तन्त्रीः कर्णामृतं पिब' इति । अस्माकं तु मते व्यवस्थितवास्मरणाद् विकल्पो मन्तव्यः । तेन ‘मातर्लक्ष्मि! भजस्व माम्' इत्यादिकम् ' हे लक्ष्मीः ! स्या दरिद्राणाम्' इति च (क० च० २।१।९)।
७. जरसादेशविषये भाष्यकाराभिमतम्
११
दीर्घोच्चारणाद् अतिजरसादिति । .... भाष्यकारमते तु पुनः अतिजरादिति भवितव्यम्, सन्निपातलक्षणत्वात् (दु० टी० २ ।१ । २१)।
८. 'स्मात् ' आदेशविषयकं मैत्रेयरक्षितस्याभिमतम्
‘सर्वतो जयमन्विच्छेत् पुत्रादेकात् पराजयम्' इत्यसाधुरिति रक्षितः । अन्ये तु 'गणकृतमनित्यम्' (कात० प० २९) इति न्यायात् साधुत्वमाहुः । अपरे तु 'पुत्रादेकात् पराजयम्' पुत्रादेव पराजयम् इत्यवधारणार्थत्वान्न सर्वनाम इत्याहु: ( क० च० २।१।२६)।
९. सम्बुद्धाबोकारादेशविषयकमाचार्यवररुचेरभिमतम्
सम्बुद्धौ च (२।१।५६) इत्यत्र चकारोऽनित्यार्थस्तेन 'वरतनु ! सम्प्रवदन्ति कुक्कुटाः' इति वररुचिः । स्वमते दीर्घान्ततनूशब्देन साध्यम् । समासान्तविधेरनित्यत्वाद् “गोरप्रधानस्य" (कात० परि० नाम० ८१ ) इत्यादिना न ह्रस्वः (क० च० २।१।५६) ।
"