________________
१०
कातन्त्रव्याकरणम्
[ साक्षात् प्रतिपत्त्यर्थम् ]
१. आदिग्रहणं साक्षात् प्रतिपत्त्यर्थमवश्यं कर्तव्यम् |
नामचतुष्टयस्य प्राथमिके पादत्रितये वृत्तिकार - टीकाकार- पञ्जिकाकार - कलापचन्द्रकारैश्चतुर्भिर्व्याख्यातृभिर्बहूनां ग्रन्थानां वचनानि ग्रन्थकाराणां चाभिमतानि सिद्धान्ता विचारा वा समुद्धृताः सन्ति तेषु कानिचिदभिमतानि नूनमेव वैशिष्ट्यं किञ्चित् ख्यापयन्ति । इह कतिपये विचारा निदर्श्यन्ते यथोक्तवचनोल्लेखेन -
'
१. कश्चिद् - अन्य - अपरशब्दः स्मृतानामाचार्याणां शब्दार्थविषयकमभिमतम्
कश्चिदाह - जातिरेव शब्दार्थ इति ।
अन्यः पुनराह - द्रव्यमेव शब्दार्थः ।
-
अन्यः पुनराह – उभयमेवैतत् शब्दार्थः ।
अपरः पुनराह - सत्तैव शब्दार्थ
अन्यः पुनरन्यथैव प्रतिपद्यते - स्वार्थद्रव्यलक्षणो द्विक इति (दु० टी०
इति ।
२।१।१)।
*****
....
२. " धातुविभक्तिवर्जमर्थवल्लिङ्गम् ” ( २1१1१ ) इत्यत्र विभक्तिवर्जनस्य फलं गोपीनाथानुसारम्
गोपीनाथस्तु अभूवन्नित्यत्र विभक्तिवर्जनाभावे नलोपः स्यात् । न च नकारकरणसामध्यदिव नलोपो न भविष्यतीति वाच्यम्, " अन उस सिजभ्यस्तु० " ( ३ | ४ | ३१ ) इत्यत्र विशेषणार्थत्वेन नकारस्य सार्थक्यात् । अन्यथा 'अ उस्' इति कृते 'पपाच' इत्यत्रापि उसादेशः स्यादिति (क० च० २।१।१) ।
३. शब्दज्ञानस्यावश्यकत्वमर्थज्ञाने प्रभाकरमतेन
न हि ढक्कादीनां शब्दा अपि शक्त्या लक्षणया वा गृह्यन्ते, वृत्त्या स्वरूपोपस्थापनेऽपि प्रथमं तु तद्वर्णात्मकशब्दज्ञानस्यावश्यकत्वात् । न ह्यनुपस्थितः शब्दः शक्त्या लक्षणया वा कञ्चिदर्थमुपस्थापयतीति प्रभाकराः (क० च० २1१1१ ) |
४. निवृत्तिरूपस्यार्थपदार्थस्य विषये उमापतिवचनं नोचितम्
यत्तु उमापतिना‘न चेदृशःप्रयोगः क्वापि दृश्यते' इत्युक्तं तत् किमस्माकमपराधःन ह्यरुणकिरणावलीनामपराधो यज्जीवलोकमुलूको नावेक्षते इति (क० च० २ ।१ ।१) ।