________________
भूमिका षट्शतपृष्ठात्मकं वर्तते, कारक - समास - तद्धितप्रकरणात्मकं द्वितीयखण्डं च सप्तशतपृष्ठात्मकं कल्पितमस्ति । आख्याताध्यायभागस्तृतीयः प्रायेण सहस्रपृष्ठेषु कृप्रकरणात्मकश्चतुर्थश्चापि भाग एतावत्स्वेव पृष्ठेषु परिसमाप्तो भविष्यतीति संभाव्यते । एतादृशं व्याख्यादिबाहुल्यसमृद्धवाङ्मयं पाणिनीयादिव्याकरणान्तरापेक्षया सरलं संक्षिप्तं च कातन्त्रमुपस्थाप्य व्याकरणवाङ्मये लोकव्यवहारप्रधानां माहेन्द्रीं परम्परामुज्जीवयन्तो येऽद्यापि जयन्ति, सर्वांस्तांस्तान् कातन्त्राचार्यान् प्रति सर्वप्रथममहं प्रणतः संस्तेभ्यः कृतज्ञतां विज्ञापयामि |
एतावत्या महत्याः प्रकाशनयोजनायाः स्वीकरणाय सम्पूर्णानन्दसंस्कृतविश्वविद्यालयो नूनमभिनन्दनीय एवास्ते, अभिनन्दनीया चास्ति प्रकाशनसमितिः । यथोचितनिर्देशन - व्यवस्था - समाधानादिकार्यजातस्य निर्वाहाय कुलपति-कुलसचिवप्रकाशननिदेशक- तदीयसहयोगिनोऽपि यशोभाजो भवन्ति । तस्मात् परममाननीयान् कुलपतिश्रीमण्डनमिश्रमहाभागान् प्रति प्रणामाञ्जलिना, कुलसचिवनिदेशकवर्यान् प्रति विनयव्यापारेण, अथ च सुहृद्वर्यं प्रकाशननिदेशकश्रीहरिश्चन्द्रमणित्रिपाठिमहोदयं प्रति सुहृत्सम्मितसद्भावध्वनितधन्यवादप्रदानेन च स्वीयां कृतज्ञतां विज्ञापयामि । ईक्ष्यपत्रसंशोधनादिकार्येषु कौशलमावहन्तो डॉ० हरिवंशपाण्डेय - कन्हईसिंहकुशवाहाप्रभृतयः प्रकाशनविभागीयसदस्यास्त्वरितसन्मुद्रणयोजनाव्यापारपरा आनन्दप्रिण्टिङ्गप्रेसाधिकारिणश्चाप्यवश्यं धन्यवादानर्हन्ति ।
कार्येऽस्मिन् सम्पादकत्वेन संसक्तोऽहं नास्मि यद्यपि प्रचारपरस्तथापि लोकोऽयमवश्यं समये शब्दार्थों लोकते = परीक्षते । एतस्मादेव कारणात्तदीयान्वर्थताधिगम्यते । यथोक्तम्,
लोक्येते येन शब्दार्थों लोकस्तेन स उच्यते ।
व्यवहारोऽथवा वृद्धव्यवहर्तृपरम्परा ॥ अयमाशयः-दिल्लीमहानगरस्था 'कुन्दकुन्दभारतीट्रस्ट' नाम्नी जैनसंस्था समीक्षानन्तरं ग्रन्थस्यास्योत्कर्षातिशयं मन्यमाना 'आचार्य-उमास्वामि-पुरस्कारम्' १९९७ वर्षीयमैषमो