SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ नाचतुष्टयाप्याये प्रथमो पातुपादः ११४. बहुव्रीहौ [२।१।३५] [सूत्रार्थ] बहुव्रीहि समास में सर्वनामकृत कार्य नहीं होता है ।। ११४ | [दु० वृ०] बहुव्रीहौ समासे सार्वनामिकं कार्यं न भवति । त्वत्कपितृकः, मत्कपितृकः। अक् न स्यात् । वस्त्रान्तरवसनान्तराः । अप्रधानादेव द्वन्द्वस्थाच्चेति वा न स्यात् ।। ११४ । [दु० टी०] बहु० । त्वं पिता अस्य, अहं पिता अस्य इति 'त्वपितृको मत्पितृकः' इत्यकि प्रतिषिद्धे कः स्यात्, अन्यथा 'त्वकपितृको मकपितृक ः' इति प्रसज्येत । अन्तरङ्गोऽप्यक् वचनात् प्रतिषिध्यते । बहिरङ्गस्य सार्वनामिकस्य कार्यस्योपसर्जनत्वादेव प्रतिषेध इति । तथाऽवयवभूतेऽपि बहुव्रीहौ वस्त्रमन्तरं येषाम्, वसनं वासोऽन्तरं येषामिति वस्त्रान्तरेत्यादि। कथमाढ्यो भूतपूर्वः आढ्यपूर्वः, आध्यपूर्वाय देहीति । पूर्वादीनां व्यवस्थायामिति न भवति ।। ११४ । [वि० प०] बहु० । 'त्वत्कपितृको मत्कपितृकः' इति । त्वं पिता अस्य, अहं पिता अस्येति विग्रहः । अन्तरङ्गेऽप्यकि वचनात् प्रतिषिद्धे कप्रत्ययः स्यादेव । अन्ते च 'नदायन्ताद् बहुव्रीहौ' इति वचनात् कप्रत्ययः । 'वस्वान्तरवसनान्तराः' इति वस्त्रमन्तरं येषां ते वस्त्रान्तराः, वसनं वासोऽन्तरं येषां ते वसनान्तरा इत्यत्र जस इकाराभावं प्रति बहुव्रीहाविति वचनं न प्रयोजयति, उपसर्जनत्वादेव प्रतिषेधः सिद्धः । तथा वस्त्रान्तराश्च वसनान्तराश्चेति विग्रहे "द्वन्द्वस्थाच्च"(२।१।३२)इति न वर्तते इत्याह - वस्त्रान्तरेत्यादि । अप्रधानत्वादेवेति न भवति बहुव्रीहावन्तरशब्दस्योपसर्जनीभूतत्वादित्यर्थः ।।११४ | [क० च०] बहु०। उक्तमिति वृत्तौ कथमुक्तम्, उपसर्जनत्वादेव ‘अतिसर्वाय' इत्यादौ निषेधसिद्धेः अको निषेधार्थमन्यद्ग्रहणस्यैव विवरणं क्रियताम् ? सत्यम् ।अक्प्रतिषेधार्थं क्रियमाणमेतद् वचनं स्मैप्रभृतिकमपि विषयीकरोतीति प्राचः। पराभिप्रायेणोक्तमिति
SR No.023087
Book TitleKatantra Vyakaranam Part 02 Khand 01
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year1998
Total Pages630
LanguageSanskrit
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy