SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ १०६ कातन्त्रव्याकरणम् कुलचन्द्रः । आधुनिकास्तु न पठन्त्येव । ननु यथा अक उपसर्जनत्वात् 'प्रियसर्वाय' इत्यादौ सार्वनामिकं कार्यं न भवति । तथा ' त्वत्कपितृकः' इत्यत्रापि किमनेनेत्याह - अन्तरङ्गेऽपीति । ननु कथम् अस्यान्तरङ्गत्वं चेदुच्यते समासमपेक्ष्य वाक्यस्य पूर्वोपस्थितत्वेनान्तरङ्गात् तद्दशायां भवतोऽक्प्रत्ययस्यान्तरङ्गत्वमुच्यते । ननु वाक्यदशायां जातस्याक्प्रत्ययस्य कथं समासे निषेधः कर्तुं शक्यते ? सत्यम् । बहुव्रीहाविति विषयसप्तमी, ततो वाक्यदशायां बहुव्रीहेर्विषयत्वाद् वचनमिदं सार्थकमिति । यद् वा नात्र सूत्रे भवतीत्यादिक्रियाध्याहार्या, किन्तु तिष्ठतीति क्रिया । एवं सति वाक्यावस्थायां जातोऽक्प्रत्ययः समासे सत्यनेन दूरीक्रियते । शरणदेवस्त्वाह - यद् वा बहुव्रीहिशब्दोऽयमुपचाराद् बहुव्रीहियोग्यवाक्ये वर्तते इत्याह- वचनबलादिति । ननु तथापि सूत्रमिदं निरर्थकम्, यावता वाक्यदशायां सर्वनामत्वमाश्रित्य कृतस्यापि अक्प्रत्ययस्य समासे सति सर्वनाम्नां गौणत्वोत्पत्तौ सत्यां निमित्तस्य सर्वनाम्नोऽनैमित्तिकस्याप्यभावो भविष्यतीति ? सत्यम् । वचनमिदं नैमित्तिकपरिभाषाया अनित्यत्वज्ञापनार्थम् । तेन 'कर्मणि' इत्यत्र णत्वे कृते नान्तत्वाभावेऽपि दीर्घो न निवर्तते । अत एव निमित्ताभावविषये 'असिद्धं बहिरङ्गम्' (कात० प० ३३) इत्यस्यापि क्वचिद् विषय इति । अत्रान्तरङ्गो दीर्घाभावो बहिरङ्गो णत्वविधिः । तथा 'गोमान् भविष्यति' इत्यत्र भविष्यद्योगेऽपि वन्तुर्न निवर्तते, तथा 'अस्यापत्यम् इ:' इत्यत्र प्रकृतेरपाये सति इ - प्रत्ययस्य न निवृत्तिः । वस्त्रान्तरवसनान्तराः इति वृत्तिः । ननु कथमत्र द्वन्द्व एकार्थत्वात्, नहि भवति घटकलशाविति ? सत्यम् । वसनशब्दश्चात्र वसन्त्यस्मिन्निति व्युत्पत्त्या गृहवृत्तिः, न तु वस्त्रवृत्तिः । यत्तु वसनं वासः इत्युक्तं पञ्ज्याम्, तदपि गृहवचनमेव ।। ११४ [समीक्षा] 'मत् + पितृकः, त्वत् + पितृक:' इस स्थिति में का त्रकार सार्वनामिक कार्य = अक् प्रत्यय का निषेध करते हैं । पाणिनि के अनुसार सर्वनामसंज्ञा का ही निषेध होता है "न बहुव्रीहौ " ( अ० १।१।२९)। [रूपसिद्धि] १. त्वत्कपितृकः । 'युष्मद् + सि+ पितृ + सि' । त्वं पिता अस्य । बहुव्रीहिसमास, "तत्स्था लोप्या विभक्तयः " (२।५।२) से विभक्तिलोप, “त्वन्मदोः” (२| ३ | ३) से
SR No.023087
Book TitleKatantra Vyakaranam Part 02 Khand 01
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year1998
Total Pages630
LanguageSanskrit
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy