________________
कातन्त्रव्याकरणम्
१०४ __श्रुतत्वादित्यादि तत्र बहुलत्वाद् विभक्तेश्च पूर्व इष्यते इति विभक्तेश्च पूर्वमक्प्रत्ययः, स च विभक्तिग्रहणेन गृह्यते अन्तलोपे सतोत्वमस्थानिनीत्येत्वम् । वाक्ये प्रत्युदाहृते समासेऽपि प्रत्युदाहर्तव्य एव त्वकत्कृतम्, मकत्कृतमिति ।। ११३ ।
[क० च०]
तृतीया० । यदि समासशब्देनैव सह संबध्यते चकारस्तदा तृतीयायाः समासे इत्येवं विदध्यादित्याह - किञ्चेति । ननु कार्य प्रत्युत्तरपदार्थप्रधानस्तत्पुरुषः, संबन्धस्तु पदस्य पदेनैवेति विदध्यादित्याह - किं चेति कुलचन्द्रः। पूर्वस्मै मासेनेति । ननु कथमिदमुक्तं प्रत्युदाहरणम्, व्यङ्गविकलत्वात् । तथाहि यथा तृतीयासमासयोग्यताभावस्तथोत्तरपदसर्वनामत्वाभावश्च । अत एव वृत्तिकृतोक्तम् - श्रुतत्वात् सर्वनाम्नैव समास इति ? सत्यम् । यत्र तृतीयासमासोऽङ्गीक्रियते, तत्रैव परपदनियमः । यदि पुनस्तृतीयासमासयोग्यता नास्ति तदा परपदनियमोऽपि नास्ति । वस्तुतस्तु 'पूर्वस्मै, पूर्वेण' इत्यादिकमेव प्रत्युदाहरणं बोध्यम् ।। ११३ ।
[समीक्षा]
'मासपूर्व + डे' इस स्थिति में कातन्त्रकार सार्वनामिक कार्य= डे को स्मै आदेश का निषेध करते हैं, परन्तु पाणिनि के निर्देशानुसार यहाँ सर्वनामसंज्ञा का ही निषेध होता है - "तृतीयासमासे' (१।१।३०)।
[रूपसिद्धि]
१. मासेन पूर्वाय, मासपूर्वाय । मासेन पूर्व + डे, मासपूर्व + डे । प्रकृत सूत्र के निर्देशानुसार यहाँ 'डे' को “स्मै सर्वनाम्नः' (२।१।२५) से 'स्मै' आदेश न होने पर "टेर्यः" (२।१।२४) से 'डे' को 'य' आदेश तथा “अकारो दीर्घ घोषवति" (२।१।१४) से दीर्घ आदेश ।
२. मासेनावराः, मासावराः। मासेन अवर + जस्, मासावर + जस् । जस् को 'इ' आदेश के अभाव में "समानः सवर्णे दीर्घाभवति परश्च लोपम्” (१।२।१) से सवर्णदीर्घ तथा परवर्ती अकारलोप - स् को विसगदिश ।। ११३।