________________
नामचतुष्टयाध्याये प्रथमो धातुपादः
[दु० वृ० ]
तृतीयायाः समासे असमासे चोक्तमन्यच्च सार्वनामिकं कार्यं न भवति । मासेन पूर्वाय, मासपूर्वाय । मासेनावराः, मासावराः । श्रुतत्वात् सर्वनाम्नैव समासे इह स्याद् अक्- त्वयका कृतम्, मयका कृतम् ||११३।
[दु० टी० ]
१०३
तृतीया० । तृतीयायाः समासस्तृतीयासमासः परपदार्थप्रधानस्तत्पुरुषः । प्रधानं समासमपेक्ष्य चकारोऽनुक्तमपि तद् योग्यं वाक्यं समुच्चिनोति । किं च यदि समुदायमपेक्ष्य स्यात् तदा द्वन्द्वादिषु अनर्थकः प्रतिषेध इत्याह- मासेन पूर्वायेति । एवं मासेनावराः मासावराः इति "जस् सर्व इ: " ( २ | १।३०) न भवति । पूर्वीभावे मासः करणं कर्ता वा करोतौ मासेन पूर्वः कृतः इति गम्यमानत्वात् । मासेन पूर्वस्य हेतो: मासपूर्वहेतो: “षष्ठ्येव हेतुप्रयोगे" (२ | ४ | ३७) । श्रुतत्वादित्यादि वाक्ये प्रत्युदाहृतेऽपि समासोऽपि प्रत्युदाहृत एव । 'त्वकत्कृतम्' इति पूर्वपराभ्यामेव समासाभिधानं नान्यैः सर्वनामभिः । केचिद् अत्र समासयोग्यत्वाद् वाक्यमपि समास इत्युपचर्य्य बहुव्रीही चेत्यत्रानर्थकं चकारं पठन्ति । ननु तृतीयार्थयोग इति कथं न विदध्यात्, नैवम् | तदा पूर्वस्मै मासेन इत्यत्र प्रतिषेधो भवितुमर्हति समासग्रहणे हि समासमपेक्ष्य तद् योग्यं वाक्यं प्रतिपत्तव्यम् । नैवम्, तृतीयार्थेन हि योगः समासार्थे वाक्ये समासे च संभवति नान्यत्रेति प्रतिपत्तिरियं गरीयसीति | | ११३ |
[वि० प० ]
तृतीया० । चकाराद् विभक्त्यन्तरसमासेऽपि कथं न भवतीति नाशङ्कनीयम् । तृतीयायाः समासस्तृतीयासमासः । इहोत्तरपदप्रधानत्वात् तत्पुरुषस्य, प्रधानेन समासेन संबध्यमानश्चकारो ऽनुक्तमप्यसमासमेव समुच्चिनोतीत्याह तृतीयायाः समासे असमासे चेति, असमासेऽपि तृतीयाया एवेत्यर्थः । तेन सन्निधानात् तृतीयासमासयोग्य एव वाक्येऽपि प्रतिषेध इति । किं च यदि चकारः समासान्तरमपि समुच्चिनुयात् तदा द्वन्द्वादिषु प्रतिषेधान्तरमनर्थकमनेनैव सिद्धत्वादित्याह - मासेन पूर्वायेति । इह पुनः स्मैर्भवत्येव पूर्वस्मै मासेनेति तृतीयासमासयोग्यत्वाभावात् ।
'
-