________________
नामचतुष्टयाध्याये प्रथमो धातुपादः
८५ परपदस्यानुपसर्जनत्वेन सर्वनामत्वात् तदाश्रितकार्यं प्राप्नोत्येव । नैवम्, बाह्वादिगणे उपबाहुशब्दपाठेन यच्छब्दाश्रितं यत् कार्यमुक्तं तन्न तदाश्रितम् इति ज्ञापकात् । अत एव ‘सौत्रनाडिः' इत्यत्र ग्रहणवता लिङ्गेन च तदन्तविध्यभावे सति नडशब्दाश्रित आयनण्प्रत्ययो न भवति, किन्तु "इणतः" (२।६।५) इतीण् । तथा चोक्तम् –
गणे तदन्तस्य विघेरभावो बाहादिसूत्रे ग्रुपबाहुपाठात् ।
अतोऽत्र मन्येत कुतोऽत्र देश्यं द्वन्द्वादिके कार्यनिषेधवाचा ॥ अत एवोपसर्जनस्यापीति उपसर्जनान्तस्यापीत्यर्थः । एतदुक्तं भवति - तदन्तविधिना सर्वाद्यन्तस्य उपसर्जनान्तस्यापि । गौणत्वाभावात् संज्ञा स्यादित्यन्वर्थाश्रयणं युक्तमित्यर्थः । तथा च समुदायसंज्ञा इत्यन्वर्थत्वेन व्यावर्तनम्, अवयवाश्च सर्वार्थका न संज्ञेति भावः । अत एव तदन्तः संज्ञीति टीकाकारः। अथ 'अतिसर्वाय सर्वस्मै' इत्यत्र चान्वर्थत्वात् कथन्न संज्ञेति चेत्, सर्वत्वपुरस्कारेण सर्वार्थवाचकस्यैव ग्रहणात् । अथ तर्हि 'सर्वातिसर्वाय' इत्यत्र सर्वत्वपुरस्कारस्यापि सत्त्वात् ‘परमसर्वस्मै' इतिवत् संज्ञा स्यात्, नैवम् । येन सर्वादिना सर्वाद्यन्तं गृह्यते प्रत्यासत्त्या यदि तेनैवार्थेन तदन्तस्य सर्वार्थता स्यात् तदा संज्ञेति कश्चिन्न दोषः । त्वत्कपितृकः' इत्यादौ व्यपदेशिवद्भावात् तदन्तत्वमस्तीति बहुव्रीहाविति वचनं च संगच्छते । तथा 'तत्पुत्रः' इत्यादौ तदादिप्रकरणे प्रत्युदाहरणस्य सङ्गतिः । न च गौणत्वमिति वाच्यम्, प्रत्यासत्त्या सर्वान्तभागस्य योऽर्थस्तमपेक्ष्य गौणमुख्यव्यवहाराश्रयणात्, तर्हि अतिसर्वाय' इत्यादौ अन्तभूतस्य परपदस्य व्यपदेशिवद्भावेन तदन्तत्वात् संज्ञा स्याद् इति चेत् का क्षतिः, स्मैप्रभृतीनां सर्वनामाश्रितविभक्तिस्थाने विधीयमानत्वात् ।
वस्तुतस्तु तदन्तविधिरत्र प्रकरणे मन्तव्य इत्यत्र विधिप्रकरणे स्मैप्रभृतौ तदन्तविधिरित्येवार्थः । संज्ञा च केवलस्यैव अत उपसर्जनस्यापि प्राप्नोति अर्थाश्रितो गौणमुख्यव्यवहारो न शब्दाश्रित इति न्यायात् । अन्वर्थे तु सति संज्ञाविधावन्वर्थस्याश्रयणाद् गौणमुख्यन्यायावतार इति भावः । त्वत्कपितृकः' इत्यादौ सर्वनामत्वाभावाद् बहुव्रीहाविति वचनमसङ्गतमिति चेत्, अत्र वक्ष्यति - अन्तरङ्गोऽप्यक् वचनात् प्रतिविद्यते इति वाक्यावस्थायां प्राप्तोऽप्यक् वचनान्निवर्तत इत्यर्थः । तर्हि निमित्ताभावादेव समासे सति अकोऽपि निवृत्तिभविष्यति किन्तेन वचनेनेति चेत् ? सत्यम्, तदेव वचनं ज्ञापयति -