SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ कातन्त्रव्याकरणम् नगरबाह्याय चाण्डालादिगृहायेत्यर्थः । उपसंव्याने च - अन्तरस्मै शाटकाय | वस्त्रान्तरेणावृतायेत्यर्थः । ___ बहिर्योगोपसंव्यानयोरिति किम् ? अयमनयोमियोरन्तरे तापसः प्रतिवसति, अस्मिन्नन्तरे शीतान्युदकानि सन्ति । मध्यवचनोऽत्रान्तरशब्दस्तेन इहापि “डिः स्मिन्" (२।११२७) इति न भवति । वृत्करणं पूर्वादिगणसमाप्त्यर्थम् । त्यद् - त्यस्मै । तद् - तस्मै इत्यादयो ह्यनुसतव्याः । द्विप्रभृतेस्तु स्मैप्रभृतयो न भवन्तीति यथासंभवमक्प्रभृतीनि प्रयोजनानि ज्ञातव्यानि ।। १०४। [क० च०] स्मै । ननु “सर्वादीनि सर्वनामानि" (अ० १।१।२७) इति कैश्चित् सर्वनामसंज्ञां प्रति सूत्रं प्रणीतम् । अस्मन्मते का गतिरित्याह – सर्वेषां नामेति। वाचकमित्यर्थः । उभादीनां तु उभत्वादिरूपेण युगपत् सर्वेषामनभिधानेऽपि गणपाठबलादेव पर्यायेण तदभिधानादेवादोष इति मन्तव्यम् । यत्र तु युगपत् सर्वार्थता कतिपयार्थता च संभवति तत्र समशब्दादौ सर्वार्थतैव गृह्यते न कतिपयार्थता |मुख्यार्थतासम्भवे गौणार्थताकल्पनाया अन्याय्यत्वात् । युष्मदस्मदादीनां चेतनामात्रवाचित्वाद् गणपाठसामदेिव सर्वनामतेति अन्वर्थ इति संक्षेपः। एतत्पर्यायेति जगदादिपर्यायवर्जितानामित्यर्थः । सत्यमित्यादि । ननु यथा लोकोपचाराज्जगदादिपर्यायवर्जितानां सर्वनामसंज्ञा तथा संज्ञोपसर्जनवर्जितानामेव भविष्यति । लोकोपचारादेव किमन्वर्थेनेति ? सत्यम्, यत्र व्याख्यान्तरं तत्र लोकोपचाराश्रयणमिष्टसिद्ध्यर्थम्, यत्र तु व्याख्यान्तरं सम्भवति तत्र किं लोकोपचाराश्रयणेनेति कश्चिदित्यत्रापि संबन्धनीयमिति । एतच्च विशेष्यत्वप्रदर्शनार्थमुक्तम्, न पुनः सर्वस्य विशेष्यत्वे सर्वनामत्वमिति कुव्याख्यानं युक्तमित्यग्रे वक्ष्यति । समुदायो न संज्ञा किन्त्ववयव एव संज्ञोपसर्जनेऽपि सर्वार्थकम् । एवं चेत् तत् कथम् अन्वर्थेन व्यावृत्तिरिति पूर्वपक्षो विद्यत एव, तथापि येन केनचित् प्रकारेण व्यावृत्तिर्घटत इति कृत्वा पूर्वपक्षं करोति - नन्वित्यादि केचित् । तदन्तविधिरिति । अत्र प्रकरणे अत्र गणे । एतेन सर्वाद्यन्तस्यैव सर्वनामसंज्ञेत्यर्थः । ननु ‘ग्रहणवता लिङ्गेन न तदन्तविधिः' (व्या० प० पा० ८९) इति न्यायात् कथं तदन्तस्य ग्रहणमित्याह - तथा चेति । ननु कथमिदं ज्ञापकम् , यावता द्वन्द्वादौ
SR No.023087
Book TitleKatantra Vyakaranam Part 02 Khand 01
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year1998
Total Pages630
LanguageSanskrit
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy