SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ नामचतुष्टयाध्याये प्रथमो धातुपादः अन्यार्थस्यावधिभूतस्य विषयभूता सा कथं पूर्वादिशब्दवाच्या भवितुमर्हति इति । असंज्ञायामिति । संज्ञायामसत्यामपि पूर्वादयः शब्दा यदि संज्ञारूपेण न वर्तन्ते इति तदा एतदुक्तं भवति – पूर्वादयः शब्दा व्यवस्थायां गम्यमानायामपि असंज्ञारूपाः सन्त सर्वनामसंज्ञा भवन्तीति । पूर्वस्मादिति । परस्मादवधेरिति गम्यते । एवमन्येऽपि द्रष्टव्या इति । व्यवस्थायामिति किम् ? दक्षिणाय गाथकाय देहि । प्रवीणायेत्यर्थः । अत्रापि प्रावीण्यमात्रं निमित्तमुपादायावधिभावो निरपेक्ष एव । दक्षिणशब्दो गाथके वर्तते । I ८३ असंज्ञायामिति किम् ? उत्तराय कुरवे देहि । सत्यामपि व्यवस्थायामियं तेषां संज्ञा । तथाहि जम्बूद्वीपं सुमेरुं वाऽवधिमपेक्ष्य उत्तरशब्दः कुरुष्वपि वर्तते इति व्यवस्था गम्यते। स्वमज्ञातिधनाख्यायामिति । ज्ञातधनयोराख्या ज्ञातिधनाख्या । ज्ञातिधनयोः संज्ञारूपेण स्वशब्दश्चेन्न वर्तते तदा सर्वनामसंज्ञेत्यर्थः । स्वस्मै पुत्राय स्वस्मै गवे । आत्मीयायेत्यर्थः। आत्मीयत्वमात्रेऽत्र स्वशब्दो वर्तते इति ज्ञातिधनयोस्त्वप्रतिपत्तिः, पुत्रगोशब्दसन्निधानादिति । अज्ञातिधनाख्यायामिति किम् ? स्वाय ज्ञातये, स्वाय धनाय ! अत्र ज्ञातिधनयो: पर्यायरूपतया स्वशब्दो वर्तते । कथन्तर्हि ज्ञातिधनयोः प्रयोगः, न ह्यपि भवति वृक्षस्तरुरिति । यथोक्तम्, पर्यायाणां प्रयोगो हि यौगपद्येन नेष्यते । पर्यायेणैव ते यस्माद् वदन्त्यर्थं न संहताः ॥ पर्यायत्वं ततः सर्वपर्यायाणां प्रतिष्ठितम् ॥ इति । सत्यम्, यत्रानेकार्थः शब्दः सन्दिग्धार्थो वा तत्रार्थविशेषप्रतिपादनार्थं पर्यायशब्दस्यापि प्रयोगः कर्तव्य एव । यथाह - 'हरिः सिंहः, पिकः कोकिलः' इति । तथा च, धूमायन्त इवाश्लिष्टाः प्रज्वलन्तीव संहताः । उल्मुकानीव मे स्वा हि ज्ञातयो भरतर्षभ ! इति । अन्तरं बहिर्योगोपसंव्यानयोरिति । बहिरित्यनावृतो देशस्तेन सम्बन्धो बहिर्योगः, स चानावृतस्य बाह्यस्य वस्तुनो भवति । उपसंवीयते पिधीयते तदिति “कृत्ययुटो ऽन्यत्रापि च" (४ | ५ | ९२) इति वचनबलात् कर्मणि युट् करणे वा संवीयते विधीयतेऽने नेति संब्यानम् । पश्चादुपशब्देनापि संबन्धः । संव्यानस्य समीपम् उपसंव्यानमिति । अबहिर्योगवस्तुनोऽवस्त्वन्तरेण पिहितमुच्यते । बहिर्योगे यथा - अन्तरस्मै गृहाय ।
SR No.023087
Book TitleKatantra Vyakaranam Part 02 Khand 01
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year1998
Total Pages630
LanguageSanskrit
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy