________________
कातन्त्रव्याकरणम्
वर्तिन एव | कथमन्यथा जगदादिपर्यायवर्जितान्येव सर्वनामानि निश्चेतुं शक्यन्ते ऋते लोकोपचारात् ? तथाऽन्वर्थोऽपि तैरङ्गीकर्तव्य एव । यथोक्तं जिनेन्द्रबुद्धिना - "अत एवान्वर्थसंज्ञाकरणात् संज्ञोपसर्जनीभूतानां सर्वनामसंज्ञा न भवतीति" (का० वृ० -न्यासः १।१।२७)।
ननु उभशब्दो ट्यर्थकत्वाद् द्विवचनान्त एव, नच तत्र सार्वनामिकं कार्यं किमपि संभवतीति स्मैप्रभृतीनां यथायोगम् एकवचनबहुवचनंविषयत्वात् तत् किमित्यसौ पठ्यते । अथात्र सर्वनामत्वादक्प्रत्यय इति चेत्, तदयुक्तम्, कप्रत्ययेनैव सिद्धत्वात् । न खल्वत्राप्यकि विहिते के वा रूपभेदोऽस्ति ? सत्यम् । सर्वनाम्नो हेतुप्रयोगे सर्वा विभक्तयो भवन्तीति व्याख्येयं तदुभयशब्दस्यापि सर्वनामत्वे यथा स्यात् - उभौ हेतू, उभाभ्यां हेतुभ्याम्, उभयोर्हेत्वोरिति । अन्यथा “षष्ठी हेतुप्रयोगे" (२।४।३७) इति षष्ट्येव स्यात् । उभयेति । उभाववयवौ यस्येति विग्रहः । “उभान्नित्यम्" इति तमादित्वादयट् । उभय-उभयस्मै । अन्य-अन्यस्मै । अन्यतर-अन्यतरस्मै । इतर-इतरस्मै । डतर-डतमौ प्रत्ययौ । यत्तदेकेभ्यो द्वयोरेकस्य निर्धारणे डतरः, बहूनां जातौ डतमः । तौ किम इति तमादित्वात् । अतो इतरडतमप्रत्ययान्ता अपि गृह्यन्ते । यतरस्मै, यतमस्मै । कतरस्मै, कतमस्मै । वृत्करणमन्यादिगणसमाप्त्यर्थमिति ।
त्वशब्दोऽप्यन्यार्थः, त्वस्मै । नेमशब्दः खण्डनार्थः, नेमस्मै । समशब्दः सर्वार्थः समानार्थकश्चेति यदाह – “समं सर्वसमानयोः" (द्र०, अ० को० ३।१।६४) इति । अत्र तु सर्वपर्याय एव गृह्यतेऽन्वर्थसंज्ञाबलात् । सम-समस्मै, सिम-सिमस्मै । पूर्वापरावरदक्षिणोत्तरपराधराणि व्यवस्थायामसंज्ञायामिति । अत्र स्वाभिधेयापेक्षोऽवधिनियमो व्यवस्थेति । अवधिर्मर्यादा सीमेति यावत् । तस्य नियमोऽवश्यम्भावः अवधिभावादभ्रंशः, स किम्भूतः स्वाभिधेयापेक्षः पूर्वादीनां स्वाभिधेयो दिग्देशकालस्वभावो योऽर्थस्तमपेक्षते इति स्वाभिधेयापेक्षः। ____ अस्यायमर्थः- दिगादीनामर्थानां पूर्वादिशब्दाभिधेयानां यत् तावत् पूर्वादित्वं तन्नियोगतः कमप्यवधिमपेक्ष्य भवति । तथाहि पूर्वस्य देशस्य यत् पूर्वत्वं तदवश्यं परदेशमवधिमपेक्षते तथा परस्यापि यत् परत्वं तत् पूर्वमिति पूर्वादीनां सम्बन्धिशब्दत्वादिति । एवं च सति व्यवस्थिते पूर्वादिशब्दाभिधेयानामवश्यमवधिना भाव्यमिति तस्यैवावधेर्यः पूर्वादिशब्दाभिधेयापेक्षोऽप्यवधिभाव ऐकान्तिकः स नियमो व्यवस्था, सा च गम्यमाना न तु पूर्वादिशब्दवाच्या । या हि व्यवस्था पूर्वादिशब्दाभिधेयादर्थाद्