________________
नामचतुष्टयाध्याये प्रथमो धातुपादः
यद्येवम्, ज्ञातिधनयोरप्रयोगः पर्यायत्वात् नैवम् । पर्यायशब्दो हि यत्रानेकार्थः सन्दिग्धार्थो वा तदर्थव्यक्तीकरणायानुप्रयोगः क्रियते । यथा हरिः सिंहः, पिकः कोकिल इति ।
८१
अन्तरं बहिर्योगोपसंव्यानयोः इति बहिरनावृतो देश उच्यते । तेन योगो बहिर्योगः, स चानावृतस्य वस्तुनो भवति । उपसंवीयते पिधीयते तदिति कर्मणि युट्, संवीयतेऽनेनेति वा करणे । संव्यानस्य समीपमुपसंव्यानम् अबहिर्योगः । वस्तु वस्त्वन्तरेणापिहितमुच्यते । अन्तरस्मै गृहाय, नगरबाह्याय चाण्डालादिगृहायेत्यर्थः । अन्तरस्मै शकटाय । वस्त्रान्तरेणावृतायेत्यर्थः । परिधानीयं प्रच्छादनीयमुच्यते न प्रावरणीयम्, तदभिधाने हि तस्य बहिर्योगित्वाद् बहिर्योग एव सिद्धिः । तथा प्राव्रियते प्रच्छाद्यतेऽनेनेति प्रावरणीयमुच्यते यद् वस्त्रस्योपरि पिधीयते । बहिर्योगोपसंव्यानयोरिति किम् ? अयमनयोर्ग्रामयोरन्तरे तापसः प्रतिवसति, अस्मिन्नन्तरे शीतान्युदकानि सन्ति । मध्यवचनोऽन्तरशब्दः ‘“ङि : स्मिन् " अपि न भवति । अपुरीति वक्तव्यम् - अन्तरायां पुरि वसति । “सर्वनाम्नस्तु ससवो ह्रस्वपूर्वाश्च" ( २ । १ । ४३ ) इति न भवति । अकारान्तादिति किम् ? भवतः । सर्वनामत्वेऽकुप्रभृतीनि भवन्ति । भवकान् । भवादृक् । भवता हेतुना, भवतोर्हेत्वोरिति ।। १०४ |
[वि० प० ]
स्मै । सर्वेषां नाम सर्वनामेत्यन्वर्थसंज्ञया सर्वनामेह प्रतिपत्तव्यम् । तर्हि 'जगत्कृत्स्न - - सकल' इत्येवमादीनामपि सर्वनामत्वप्रसङ्गः स्यात्, नैवम् | लोकोपचारादेतत्पर्यायवर्जितानामेव सर्वनामसंज्ञा सिद्धेति । यद्येवं किमन्वर्थेनेति ? सत्यम् । संज्ञोपसर्जनयोः प्रतिषेधो यथा स्यादित्येतदेवान्वर्थतां कथयन् दर्शयति- सर्वेषां नामेत्यादि । कश्चिदिति न सर्वस्य विश्वस्य इति संज्ञेत्यर्थः । विश्वमतिक्रान्त इति कश्चिदित्यत्रापि संबन्धनीयम् । ननूपसर्जनेऽप्रधानत्वादेव न भविष्यति किं प्रतिषेधेनेति ? नैवम् । तदन्तविधिरत्र प्रकरणे मन्तव्य एव 'परमसर्वस्मै, उत्तमविश्वस्मै' इत्यादिसिद्धये । तथा च “ नान्यत् सार्वनामिकम्, तृतीयासमासे च” (२।१।३३,३४) इत्यादिना द्वन्द्वादौ समासे तदन्तस्य सार्वनामिककार्यप्रतिषेधार्थं सूत्रान्तरमुक्तम्, तर्हि केवलस्य सर्वनामशब्दस्य सार्वनामिकं कार्यं कथमिति चेत्, आद्यन्तवद्भावात् । अत उपसर्जने स्यादिति प्रतिषेध उच्यते । यैरपि “सर्वादीनि सर्वनामानि ” ( अ० १ | १।२७) इति सूत्रमुक्तं तेऽप्यस्मत्पथ