SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ कातन्त्रव्याकरणम् उत्तमविश्वस्मै’ केवलस्याद्यन्तवदुपचारात् । अत एव तदन्तः संज्ञी तस्मादुपसर्जनस्यापि प्राप्नोतीत्यन्वर्थता युक्तेत्याह - सर्वेषां नामेत्यादि । ८० यैरपि “सर्वादीनि सर्वनामानि ” (अ० १।१।२७) इत्युक्तं तैरपि लोकत एव सर्वादीनि प्रतिपत्तव्यानि । यथा 'शूर्पणखा' इति पूर्वपदात् संज्ञायां णत्वं दृश्यते, न तथात्र तत्रापिग्रहणाद् अत एव निपातनादित्यन्ये । उभशब्दो द्विवचनः स्त्र्यादन्तश्च एव दृश्यते तयोश्च सर्वनामकार्यं नास्तीति स्मैप्रभृतीनां च यथायोगमेकवचनबहुवचनविषयत्वात् । न चाकि विहिते को वा रूपभेद इति नैवं सर्वनाम्नो हेतुप्रयोगे सर्वा विभक्तयो यथा स्युरिति उभाभ्यां हेतुभ्याम् उभयोर्हेत्वोरिति । " यत्तदेतेभ्यः, द्वयोरेकस्य निर्धारणे उतरो वा, जातौ तु इतमो बहुषु ” (अ० ५|२| ३९; ३ । ९२, ९३) इति तौ किम इति तमादिनिपातनाद् वक्ष्यते । यतरस्मै, यतमस्मै । कतरस्मै, कतमस्मै । त्वशब्दोऽन्यवाची । समशब्दः सर्वपर्यायः । तुल्यपर्यायोऽपि अन्वर्थसंज्ञया सर्वपर्यायस्यैव ग्रहणम्, तेन ‘समाय देशाय' इति स्मैर्न भवतीति । निम्नोन्नहितायेत्यर्थः, न पुनः सर्वशब्दसाहचर्याद् इति वक्तव्यम् । गणसूत्रार्थ उच्यते । असंज्ञायामिति । पूर्वादयो यदि संज्ञारूपा न भवन्तीत्यर्थः । व्यवस्थायामिति । स्वाभिधेयापेक्षोऽवधिनियमो व्यवस्था । अवधिर्मर्यादा । तस्य नियमोऽवश्यंभावः, अवधिभावाद् अभ्रंशः किम्भूतोऽवधिनियमः स्वाभिधेयापेक्षः पूर्वादीनां शब्दानां स्वाभिधेयो दिग्देशकालस्वभावोऽर्थः पूर्वादीन्यसंज्ञारूपाणि स्वाभिधेय एव वर्तमानानि व्यवस्थायां गम्यमानायां सर्वनामानीत्यर्थः । पूर्वस्मादिति । परस्मादवधेरिति गम्यते । परस्मादिति । पूर्वस्मादवधेरिति गम्यते । व्यवस्थायामिति किम् ? 'दक्षिणाय गाथकाय देहि' इति प्रवीणायेत्यर्थः । प्रावीण्यमात्रनिमित्तेनावधिभावनिरपेक्ष एव दक्षिणशब्दो गाथके वर्तते । असंज्ञायामिति किम् ? उत्तराय कुरवे देहि । सत्यामपि व्यवस्थायाम् इयं तेषां संज्ञा । तथाहि जम्बूद्वीपं सुमेरुं वा अवधिमपेक्ष्य उत्तरशब्दो वर्तते इति व्यवस्था गम्यते । " स्वमज्ञातिधनाख्यायामिति स्वशब्दः सर्वनाम भवति । न चेदयं ज्ञातिधनयोः संज्ञारूपेण वर्तते - स्वस्मै पुत्राय स्वस्मै गवे । आत्मीयायेत्यर्थः । पुत्र - गोशब्दयोरिह सान्निध्याज्जातिर्धनं च गम्यते । स्वशब्दादात्मीयत्वमात्रमिति । अज्ञातिधनाख्यायामिति किम् ?' स्वाय ज्ञातये, स्वाय धनाय' । शब्दान्तरनिरपेक्ष एव स्वशब्दो ज्ञातिधनाभिधायी ।
SR No.023087
Book TitleKatantra Vyakaranam Part 02 Khand 01
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year1998
Total Pages630
LanguageSanskrit
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy