________________
कातन्त्रव्याकरणम्
क्वचिन्निमित्ताभावे नैमित्तिकस्याप्यभाव इत्यस्यासिद्धवद्भाव इति । तेन 'कर्माणि' इत्यादौ दीर्घ, णत्वे नान्तत्वाभावेऽपि दीर्घाभावो न भवतीति कुलचन्द्रः। ____ परमार्थतस्तु 'तत्पुत्रः' इत्यादि प्रत्युदाहरणदर्शनात् प्रत्यासत्त्या यस्य संज्ञा कर्तव्या तदुत्तरविभक्तिमाश्रित्यैव गौणमुख्यव्यवहाराश्रयणम् । तदन्तः संज्ञीति, संज्ञी सर्वादिस्तदन्तस्य प्रकृतिभागस्यान्त इत्येवार्थष्टीकायां कल्पनीय इति भाव्यमधिकं मनीषिभिरिति । पूर्वस्मादिति । ननु अवधिभावदर्शने कर्तव्ये परस्मात् पूर्वः, पूर्वस्मात् पर इति वक्तुं युज्यते, तत्कथं पूर्वस्मादिति परस्मादवधेरिति गम्यत इत्युक्तम् । उच्यते - पूर्वस्मादिति गच्छतीति क्रियापदाध्याहारादपादाने पञ्चमी । परस्मादिति अवधौ "दिगितरतेऽन्यैश्च" (२।४।२१) इत्यनेन पञ्चमीत्याहुः केचित् । वस्तुतस्तु उभयत्रैवावधिभाव एव पञ्चमी परस्पेणावधिभावस्य सन्दर्शनार्थमिति । संज्ञायामिति । ननु संज्ञाग्रहणं किमर्थम्, अन्वर्थबलादेव तस्या वर्जितत्वात् ? सत्यम्, अन्वर्थद्वारेण यत् संज्ञावर्जनं तदप्रसिद्धाया एव प्रसिद्धशब्दसाधनायैव संज्ञायाःप्रवृत्तेः । प्रसिद्ध शास्त्रप्रवृत्तिायसीति न्यायात् । अत एव कुरुदेशवाचकोत्तरशब्दस्यापि प्रसिद्धत्वेन संज्ञा स्यादित्यसंज्ञाग्रहणम् । 'विश्वेदेवाः' इति तु छान्दसप्रयोगः। अथवा संकोचवृत्त्या सर्वत्वपुरस्कारेणैव विश्वशब्दो दशसु श्राद्धदेवेषु वर्तते, यथा दशघटेषु सर्वे घटा इति प्रयोगः । अत एव 'विश्वेषां देवानाम्' इति प्रयोगः साधुरिति । ___'तथा परेषां युधि चेति पार्थिवः' इति प्रयोगदर्शनात् 'तथा समुद्रादपरे परे नृपाः' इति दर्शनाच्च शत्रुवाचकस्य श्रेष्टवाचकस्यापि परशब्दस्य सर्वनामत्वम् । 'वृथा द्वयेषामपि मेदिनीभृताम्' इति माघदर्शनाद् द्वयशब्दोऽप्यत्र गणे पठनीयः ।
तथा च श्रीपतिः- कृतिना द्वयमप्यत्र गणे पठ्यते, अपिशब्दात् प्रथमपश्चिमावपि । हरगदेवस्त्वाह - 'व्यवस्थितविभाषयाऽन्यत्रापि स्वागमः' (दु० वृ०) इति पश्चिमप्रथमावपि पठन्त्यन्ये, तेन ‘पश्चिमस्यां दिशि, प्रथमस्मात्' इति च प्रयोगः । नेमशब्दोऽर्धार्थः । सिमशब्दः सर्वार्थः । यथा 'तेऽमी सिमे विस्मिताः' इति । 'उत्तराय कुरवे देहि' इति । ननु देशवाचककुरुशब्दो बहुत्व एव वर्तते तत् कथं कुरुशब्दादेकवचनम् ? सत्यम्, देहीति क्रियासंबन्धाल्लक्षणया कुरुशब्दः पुरुषे वर्तते । अथ तथापि उभयपदेन लक्षणया अयोगाद् उत्तरशब्देन सह कथमन्वयः ? सत्यम्, प्रथममुत्तरशब्देनान्वये सति पश्चात् कुरुशब्देन लक्षणयाऽन्वयः । यथा ‘गभीरायां नद्यां घोषः प्रतिवसति' इति । धूमायन्त