________________
कातन्त्रव्याकरणम्
योऽकारस्तस्य लोपेऽपि सिद्ध इत्यकारस्य निरर्थकत्वम्, अतोऽकार इत्युपादानादित्युक्तवानिति ।
ननु तथापि अकारग्रहणं सार्थकम्, यस्माद् वृक्षानित्यादावकारलोपो न प्रवर्तते । नैवम्, स्थितिपक्षेऽपि औपश्लेषिकसप्तमी ग्राह्या । ज्ञापकादिना अस्मिन् पक्षेऽपि औपश्लेषिकसप्तमीयम्, ततः शस्युपश्लिष्टस्य अकारो लोपमापद्यते इत्युक्तेऽकारोऽनर्थक इति । ननु औपश्लेषिकी सप्तमी ग्राह्या, नैवम् | चेछसि त्यदाद्यत्वे दीर्घ च सति यानित्यादिपूर्वेणैव सिध्यति, अकारो निरर्थकः । अथैवं सति सूत्रमेव निरर्थकम्, कथमकार इति ? सत्यम् । अकार इत्यस्योपादानं यत्रेति व्युत्पत्त्या सूत्रमेव वक्ष्यामः । तेन 'दण्डाग्रम्' इत्यादो लोपो न भवतीति । नन्वत्रापि प्रत्ययलोपलक्षणन्यायाद् दण्डशब्दस्याकारस्य विभक्त्युपश्लिष्टत्वेन सामान्येऽकारे लोपो भवन् अग्रशब्दस्याकारे कथन्न भवतीति, नैवम् । अभिप्रायापरिज्ञानाद् विभक्तौ परतो यल्लिङ्गं तस्याकारलोपे कर्तव्ये निमित्तभूते सामान्येऽपि अकारे गृह्यमाणे उपस्थितत्वात् तयोरेव लिङ्गविभक्त्योर्गृह्यते । कुतो दण्डाग्रम् इत्यत्र अकारलोपप्रसङ्गः । अत एव जसीत्यत्र टीकायामुक्तम् - एकपदेऽकारस्याकारे लोप इति ।
अथ 'यत्र, तत्र' इत्यत्र कथमकारलोपः, यावता वृत्तौ युवावैनमघवदर्वस्वेव प्रत्ययवदिति नियमेन प्रत्ययलोपलक्षणस्याविषय इति । नच वक्तव्यम्, त्रादीनां विभक्तित्वेनैव विभक्त्युपश्लिष्टत्वम्, तेषां सर्वनामकार्य प्रत्येव विभक्तित्वात् ? सत्यम्, वृत्तौ युवावैन इत्यादि श्रीपतिसूत्रानङ्गीकरणात् । वस्तुतस्तु विभक्त्युपश्लिष्टत्वमिह यदा कदाचित् सम्भवमेव गृह्यते । एतत्तु “आकारो महतः कार्यः" (२।५।२१) इत्यत्र दीर्घविधानादेवावसीयते, अन्यथा यदि कार्यकाले विभक्त्युपश्लिष्टत्वं गृह्यते, तदा तत्राकारेऽपि कृतेऽकारलोपस्याविषयत्वात् समानलक्षणदीर्घेणैव महादेव इत्यादिकं सिध्यतीति भावः।
पन्यां दण्डाग्रम् इत्यादि यदुक्तं तत्र दण्डेति संबोधनं पदम् - 'हे दण्ड अग्रं गच्छ' इत्यन्वयः । समासे तु “प्रकृतिश्च स्वरान्तस्य" (२।५।३) इत्यनेनैव प्रकृतिभावादकारलोपस्य निषेध इति । तर्हि समानलक्षणदीर्घोऽपि न स्यात्, नैवम् । तत्र वक्ष्यति - सन्धिस्तु स्यादेव भिन्नप्रकरणत्वात् । यथा 'देवेन्द्रः, खरोढः' इति, तर्हि यत्रेति न स्यादित्यत्रापि प्रकृतिभावस्य विषयत्वात् । चेन्न, औपदेशिकस्यापि स्वरान्ते तस्य