________________
नामचतुष्टयाध्याये प्रबमो धातुपादः
(सूत्रस्य) विषयत्वात् । नैवम्, अन्तग्रहणस्य तत्र सुखार्थतया वक्ष्यमाणत्वेनानौपदेशिकपरिग्रहार्थकत्वात् । कथमन्यथा 'राजपुरुषः' इत्यत्रापि तस्य विषय इति “अवमसंयोगात्” (२।२।५३) इत्यत्र टीकाकृद् वक्ष्यतीति चेदुच्यते, तत्र “चतुर्दश० " (१ । १ । २) इति निर्देशाद् “आकारो महतः कार्यः” (२|५|२१) इत्यत्र आकारविधानाच्च श्रुतत्वाच्चान्त्यस्वरस्यैव विकृतौ प्रकृतिभावनिश्चय इति न किञ्चिदनुपपन्नम् ।
६५
परिशिष्टं द्वितीयैकवचनमित्यादि । ननु अव्ययीभावसमासे अमादेशस्यापि सम्भवात् कथमिदमुक्तम्, सत्यम् । अत्र कुलचन्द्रः द्वितीयैकवचनं पञ्चम्यद् अव्ययीभावसमासेऽमुरूपादेशश्चेति, तन्न । नद्यां युवामितिवत् " अमतोर्लोपम्" इति सूत्रे कृते प्रतिपदोक्तस्यैवामो ग्रहणात् । तर्हि अस्मिन् पक्षे उपकुम्भमित्यत्र कथम् अकारलोपो न स्यादिति चेद् अव्ययीभावादित्यत्र डमिति कर्तव्यम् । अकारलोपस्याविषयत्वाज्जसीति न कर्तव्यम् अत्रोक्तम्, अकारे लोपे प्राप्ते वचनमिति । शसि च दीर्घो न कर्तव्यः, किन्तु "शसोऽन्” इति कर्तव्यं समानदीर्घेणैव सिद्धत्वादिति ।
अन्यच्च कातन्त्रप्रदीपेऽनुसन्धेयम् । ननु डमिति सूत्रं कृत्वा सिद्धान्तो देयः, सत्यम् । येन पुनरभ्यमादेशो मन्यते तेन पुनरभ्यम | देशो डभ्यमादेशो मन्यते कुतः पूर्वपक्षस्यावकाश इति । ननु उशनेति कथमुदाहृतम्, यावता " घुटि चासंबुद्धी” ( २।२।१७ ) इति कृते समानदीर्घत्वेनैव सिद्धत्वात् ? सत्यम् । दिङ्मात्रमिदं किन्तु संबोधनेऽदन्तपक्षे उदाहरणम्, यथा 'हे उशन' इति । ९६ ।
[समीक्षा]
कातन्त्रकार ने ‘वृक्षम्' आदि शब्दरूप अकार - लोप करके सिद्ध किए हैं, परन्तु पाणिनि ऐसे उदाहरणों में पररूपविधान (अमि पूर्व : ६।१।१०७) करते हैं । लोप तथा पररूप में अकारलोप से सरलता प्रतीत होती है ।
[ रूपसिद्धि ]
क्ष
१ . वृक्षम् । वृक्ष + अम् । प्रकृत सूत्र से क्षकारोत्तरवर्ती अकार का लोप, का अमूप्रत्ययस्थ अ - से संबन्ध |
२. युष्मत्। युष्मद् + भ्यस् । " एषां विभक्तावन्तलोपः " ( २ | ३ | ६) सेद् का लोप, ‘“अत् पञ्चम्यद्वित्वे" (२|३ | १४) से भ्यस् को अत् आदेश तथा प्रकृत गुर से मकारोत्तरवर्ती अकार का लोप ।