________________
नामचतुष्टयाध्याये प्रथमो धातुपादः
६३
[दु० बृ० ]
विभक्तौ लिङ्गस्याकारो लोपमापद्यते अकारे सामान्ये | वृक्षम्, युष्मत्, यः, सः,
उशना ।। ९६ ।।
[दु० टी० ]
अकारे० । विशेषस्यानवगमत्वात् सामान्यं स्यादिविभक्त्युपश्लिष्टमेव लिङ्गमवसीयत इत्याह - विभक्ताविति । तेन ' दण्डाग्रम्' इत्यत्र लोपो न भवति । अकारादौ स्यादाविति च नैव संबन्धः । एवं सत्यम्, अतोरिति विदध्यात् । न चाममन्तरेण पञ्चम्यतमन्तरेण च स्यादेरकारोऽस्तीत्याह - अकारे सामान्य इति, तेन त्यदाद्यत्वे उशनसादीनामनादेशे विधिरयमिति ।। ९६ ।
[वि० प० ]
अकारे० । इह स्यादिप्रस्तांवे विशेषस्यानिर्देशात् सामान्यं स्यादिविभक्तिरेव निमित्तमवगम्यत इत्याह-विभक्ताविति । तेन 'दण्डाग्रम्' इत्यादौ लोपो न भवतीति । अथ किंस्यादिसंबन्धिन्येवाकारे लोप:, आहोस्वित् सामान्ये ? इत्याह- अकारे सामान्ये इति । यदि च स्यादेरेवाकारलोपः स्यात् तदाऽन्यस्य विशेषविधिभिराघ्रातत्वात् परिशिष्टं द्वितीयैकवचनं पञ्चम्यदादेशश्च संभवतीति तदाऽमतोर्लोपमिति कुर्यात् । ननु चाभ्यमादेशोऽपि अकारादिस्यादिरस्त्येव, सत्यम् । भकारादिरयमादेश इति कश्चित् । तन्मतमिदमुक्तम् । इह तु तेभ्य एव निर्देशादेव अकारे सामान्ये भवतीति वेदितव्यमित्यदोषः । युष्मदिति । युष्मद्, पञ्चम्या भ्यस् " अत् पञ्चम्यद्वित्वे ” (२।३ । १४) इत्यदादेशः । " एषां विभक्तौ” (२।३।६) इति दकारलोपः । लिङ्गस्याप्यकारे दर्शयति ‘यः,सः' इत्यादि । यद् – त्यदाद्यत्वम् | उशना इति । उशनसोऽन्तस्यानादेशः । । ९६ ।
[क० च०]
अकारे० । इह स्यादिति ननु कथं विशेषस्यानिर्देशादित्युच्यते ? यतोऽनन्तरत्वाच्छसीत्यनुवर्तते ? नैवम्, जसीति वचनात् । अन्यथाऽकारलोपस्याविषयत्वात् समानलक्षणदीर्घत्वेनैव वृक्षा इति सिध्यति, किं जसीत्यनेनेति । हेमकरस्तु अकार इत्युपादानादित्याचष्टे । तत्रायं पूर्वपक्ष: ननु शसोऽनुवर्तनेऽपि शसि परे योऽकारस्तस्मिन्नित्यर्थेऽकारस्य सार्थकत्वम्, नैवम् । साधनमेव फलं तदा शसि परे