________________
१२
वाच्यम्, द्वितीयातत्पुरुषस्य नियतविषयत्वात् । यथा - " द्वितीया श्रितातीतपतितगतात्यस्तप्राप्तापन्नैः” (पा० २।१।२४ ) इति । नापि सप्तमीसमासेन भवितव्यमिति वाच्यम्, षष्ठीसमासनिषेधस्य व्यर्थत्वात् ? सत्यम् । " तृचा च" (कात० परि० स० ९०) इत्यनेन कर्मणि षष्ठ्या एव समासो निषिध्यते । नात्र कर्मणि षष्ठी, किन्त्वत्र कार्यकारणसम्बन्धे षष्ठीति तस्याः समासे को विरोध इति । तथा च श्रीपतिः ‘भीष्मः कुरूणां भयशोकहर्ता' (कात० परि०- समास० ९० ) इति शैषिक्याः षष्ठ्याः समासः । यद् वा “जनिकर्तुः प्रकृतिः" (पा० १|४ | ३०) इत्यादिदर्शनात् " तृचा च” (कात ० परि०-स० ९०) इत्यस्य भाषाभिन्नविषयत्वं बोध्यम् । श्रीपतिनापि तस्मिन् सूत्रे इदमेवोक्तमिति संक्षेपः ।
कातन्त्रव्याकरणम्
ननु तथापि कथं सर्वकर्तृत्वं घटते, यावता वर्तमान घटादिषु कुलालादेः कर्तृत्वं दृश्यते ? सत्यम्, कुलालादेर्यत् कर्तृत्वं दृश्यते, तत्रापि तच्छक्तिरेव साधिका । अत एव तस्ः भगवतः कुलालादिव्यपदेशः श्रूयते । तथा च - " " नमोऽस्तु कर्तृभ्यो रथकारेभ्यश्च वो नमः । नमोऽस्तु कुलालेभ्यः कर्मकारेभ्यश्च वो नमः" इति । तस्मान्मदीयग्रन्थकरणे तच्छक्तिरेव साधिकेति भगवान् नमस्य इति तात्पर्यम् । ननु तथापि दिगादीनां नित्यत्वात् कथं तस्य सर्वकर्तृत्वम् ? सत्यम्, भगवतः सूर्यादिरूपेण दिगादिप्रकाशकत्वात् तत्कर्तृत्वम् अविरुद्धम् । यद्वा सर्वपदेनात्र कार्यत्वेनाभिमतवस्त्वेवोच्येत । यथा – 'सर्वशुक्ला सरस्वती' । अत्र केशादिभिन्नस्य शुक्लत्वमवगम्यत इति । यद्वा – 'पद्भ्यां भूमिर्दिशः श्रोत्रात्’,‘नाभ्या आसीदन्तरिक्षम्' (शु० य० ३१ ।१३) इति श्रुतिः ।
ननु तथापि कथमसौ नमस्क्रियत इत्याह - 'सर्वदम्' इति । ग्रन्थसमाप्त्यर्थं विमलां बुद्धिं दास्यतीति भावः । ननु यदि सर्वदो भगवांस्तदा कुबुद्धिरपि कथं न दीयते इत्याह – ‘सर्वीयम्' इति । हितार्थे ईयः । ननु यदि सर्वीयस्तदा कथमसुरास्ताड्यन्ते तेन, कथं वा केचिद् दोलारूढाः केचिद् वाहकाः ? इति सत्यम् । ताडनादिदुःखद्वारेण
1
9.
२.
नम॒स्तव॑भ्यो रयारेभ्य॑श्च वो नमो नमः ।
कुलालेभ्यः कर्मारैभ्यश्च वो नमो नमः ॥
चतुर्मुखमुखाम्भोजवनहंसवधूर्मम
I
मानसे रमतां नित्यं सर्वशुक्ला सरस्वती ॥ ( काव्यादर्शः १ ।१ ) |
( शु० य० - रुद्राष्टाध्यायी ५ | २७ ) ।