________________
सन्धिप्रकरणे प्रथमः सज्ञापादः तेषाम् (असुराणाम्) पापानि नाशयन् तेषामपि हितायैव भवति । ननु ग्रन्थकरणे प्रवृत्तेन भवता स नमस्क्रियते इति कथं तेन देवेन ज्ञातव्यम्, येन शक्तिं दास्यतीत्याह'सर्ववेदिनम्' इति । ननु तथापि भगवतः कैलासवासित्वात् कथं दास्यतीत्याह'सर्वगम्' इति ।
___ नन्वन्येऽपि देवा वरदाः सन्ति, तान् विहाय कथम् असावेव नमस्क्रियते इत्याह - 'सर्वदेवनमस्कृतम्' इति । दुर्गे विषमे पदे, सिंह इव सिंहः, कातन्त्रस्य कौमारसूत्रस्य वृत्तिः । दन्त्यादिसर्वशब्देनापि महादेव उच्यते - 'सर्वः शर्वश्च शङ्करः' इति कोषदर्शनात् 'शृ स्' हिंसायाम् (८।१५) इति गणपाठदर्शनाच्च युक्तो दन्त्यादिपाठ इति । अत एव वासवदत्तायां श्लेष:- ‘गौरी सर्वान्तःपुरचारिणी' इत्यपि संगच्छते । "सर्तेर्वः” (कात० उ० ३।६१) इत्युणादिसूत्रे दन्त्यादिस्तालव्यादिश्च पाठः । ___अज्ञसंज्ञानहेतुना इति । ननु कथं 'हेतुना' इति तृतीया, “षष्ठी हेतुप्रयोगे" (२।४।३७) इति तृतीयाबाधिका षष्ठ्येव प्राप्नोति ? नैवम्, “षष्ठी हेतुप्रयोगे" (२।४ । ३७) इत्यनेन हेतुशब्दस्य प्रयोगे हेत्वर्थे वर्तमानाल्लिङ्गात् हेतुशब्दभिन्नात् षष्ठी विधीयते, न तु हेतुशब्दात् । यत्तु 'अन्नस्य हेतोर्वसति' इत्यत्र हेतुशब्दात् षष्ठी दृश्यते, तत्तु अन्नशब्दस्य सामानाधिकरण्यादिति । अतो हेत्वर्थे तृतीया इति सम्प्रदायः । तन्न । “षष्टी हेतुप्रयोगे'' (२।४।३७) इत्यत्र हेत्वर्थे द्योत्ये हेत्वर्थसमानाधिकरणा षष्टी भवन्ती अर्थाद् हेतुशब्दाद् अपीति टीकायामुक्तत्वात् । तस्माद् युक्तमिदं "कर्तृकर्मणो कृति नित्यम्'' (२।४।४१) इत्यत्र नित्यग्रहणेन तस्मिन् प्रकरणे विकल्पो लभ्यते । तथा च तत्रोक्तम् – “उत्तरत्र नित्यग्रहणादनित्यमपि प्रकरणेऽस्मिन्" इति । तेन षष्ठीविकल्पपक्षे हेत्वर्थे तृतीया प्रवर्तते । तथा च पुरुषेण संबन्धाद् हेतोरिति नदादिसूत्रे (२।४।५०) टीकाप्रयोगः- 'स्युर्ब्रह्मचरणाद्धेतोः' इति वृत्तिः । 'उमापतिस्तु योग्यतायाः साधकतम्यविवक्षया करणे तृतीयामाह । तथाहि
“अत्राज्ञसंज्ञानकहेतुनेति कृता तृतीया करणे, न हेतौ। न योग्यतासाधकतम्यमत्र विवक्षितं सत्यपि तत्र षष्ठी॥"
१. श्लोकबद्धस्य कातन्त्रव्याख्यानस्य कस्यचित् प्रणेता संभाव्यते ।