________________
कातन्वव्याकरणम्
ननु करणत्वं कथं संगच्छते,करणं हि साधकतमं भवति,तत्र च नियतपूर्ववर्तित्वमेव | अत्र तु अज्ञसंज्ञानस्योत्पत्स्यमानत्वाद् नियतपूर्ववर्तित्वं नास्ति ? सत्यम् । भाविनो ज्ञानस्य बुद्धौ करणत्वविवक्षेति । यद्वा अज्ञसंज्ञानहेतुः पञ्जीग्रन्थस्तस्य नियतपूर्ववर्तित्वाद् अज्ञसंज्ञानस्यापि नियतपूर्ववर्तित्वमुपचर्यते । तथा च -
"अत्राज्ञसंज्ञानपदेन लक्ष्यं तज्ज्ञानमेवेति वयं प्रतीमः।
हेतुत्वमस्येति यथा विवाहज्ञानं निमित्तं किल वृद्धिकार्ये ॥" वस्तुतस्तु 'यथाप्रज्ञम्' इत्यस्यैव विशेषणम् । तथाहि यथाप्रज्ञं कीदृशेन अज्ञसंज्ञानहेतुना ? अज्ञानां सम्यग् ज्ञानं तदेव हेतुः कारणं यस्य तेन तथा । प्रयोजनाभिधानार्थमिति। यद्यपीह साक्षात् प्रयोजनं नोक्तम्, तथापि कातन्त्रपदव्युत्पत्त्यनुसारेण शब्दव्युत्पत्तिरूपप्रयोजनलाभः । ननु ‘श्लोकं चकार' इत्युक्ते एकमिति गम्यते, किमेकग्रहणेन ? सत्यम्, इष्टदेवतानमस्कारप्रतिपादनार्थं संबन्धप्रयोजनाभिधानार्थं च । 'श्लोकं चकार' इत्युक्ते श्लोकद्वयमपि संभाव्यते, तन्निरासार्थम् एकग्रहणम् । यद् वा नमस्कारसम्बन्धप्रयोजनानां त्रयाणामेकेनैव श्लोकेन निर्वाहः कृत इति प्रौढिप्रतिपादनार्थमेकग्रहणमिति ।
ननु 'वररुचेः श्लोकोऽयं तत् कथं चकारेत्युक्तम् ? सत्यम्, कृधातुरिहार्पणार्थः । यथा भित्तौ चित्रं (त्तम्) चकार । ननु तथापि दुर्गस्याशक्तिः प्रतीयते, यतोऽन्यदीयश्लोको लिख्यते इति, नैवम् । अन्यत्र ग्रन्थान्तरेऽस्य श्लोकस्य फलसिद्धौ सामर्थ्यदर्शनादत्रापि स एवार्पित इति न शक्तिविरहः । वस्तुतस्तु शब्दानामनित्यत्वपक्षे वररुचिवाक्यादन्यदेवेदं दुर्गसिंहजनितं वाक्यम्, किन्तु समानवर्णोच्चारणे न दोष इति । न हि समानवर्णकरणे कृधातोः शक्तिर्नास्ति । नित्यत्वपक्षेऽपि आनुपूर्वीविशेषविशिष्टतया चकारेति न व्याहन्यते । यथा स्मृतिवेदयोरनादित्वेऽपि स्मृतिकारा वेदकारा इति शिष्टप्रयोगः । 'कृ विक्षेपे' (५।२१) इत्यस्य प्रयोग इति कश्चित्, तन्न । टीकायां कृतवान् इत्युक्तिविरोधात् । 'कृ विक्षेपे' इत्यस्य क्तवन्तौ कीर्णवान् इति वक्तुं युज्यते ।
देवदेवम् इत्यादीति । ननु श्लोकशब्दस्य पुंलिङ्गत्वात् तद्विशेषणस्यापि पुंस्त्वं युक्तम्, तत् कथं देवदेवमित्यादिनपुंसकनिर्देशः ? सत्यम्, नपुंसकलिङ्गोऽपि श्लोकशब्दो
१. कातन्त्रसूत्राणां दुर्घटवृत्तेः, स्वकृतकातन्त्रीयकृत्सूत्राणां चैत्रकूटी-वृत्तेश्च प्रणेता (द्र० - कात०
व्या० वि०, पृ० ७,८)।