________________
सन्धिप्रकरणे प्रथमः सञ्ज्ञापादः
दृश्यते । यथा - ' श्लोकान्यमूनि दश पर्वतराजपुत्र्या' इति । अपरं आह- 'ग्रामो दग्धः, पटो दग्धः' इतिवत् श्लोकार्थे श्लोकशब्दो वर्तते । एवञ्चौपचारिकाः शब्दाः क्वचित् स्वलिङ्गं परित्यजन्तीति । अन्ये तु सामान्योपक्रमम् इत्याहुः । यथा ' शक्यं श्वमांसादिभिरपि क्षुत् प्रतिहन्तुम्' (म० भा०- पस्पशा०, पृ० ४६, ४७ ) इति ।
केचित्तु 'देवदेवम्' इत्यादिर्यत्र श्लोककरणे इति क्रियाविशेषणमाहुः । अपरे तु गम्यमानेनेतिशब्देनोक्तार्थत्वाद् विभक्तिरेव न विहिता । यथा काल इति । तत् कथमंत्र लिङ्गविचारः ? ननु चेत्यादि । अथ ननु च शब्दविप्रतिषिद्धशब्दयोरेकार्थत्वाद् युगपत् कथमुभयशब्दप्रयोगः ? तथा च 'ननु च स्याद् विरोधोक्तौ' (अमर० ३ | ४|१४) इति कोषः ? सत्यम् । ‘ननु च' शब्दोऽयं विरोधसूचको न तु वाचकः । वाचकत्वे हि विप्रतिषिद्धं कर्म कृतम् इत्यर्थे, ननु च कर्म कृतम् इत्यपप्रयोगः स्यात् । यद् वा " ननु च प्रश्नदुष्ययो:' ( द्र०, अमर० ३ । ३ । २४८) इति विश्वप्रकाशदर्शनात् 'ननु च' शब्दः प्रश्नसूचक इति । यद् वा एकार्थशब्दद्वयोपादानादतिशयविप्रतिषेध उच्यते इति न दोषः । यद् वा चकारोऽत्रावधारणे, ननु प्रश्ने विप्रतिषिद्धमेवेत्यर्थः । एष इति । दुर्गसिंहस्यातीतत्वेऽपि तस्य ग्रन्थदर्शनात् तं बुद्धावारोप्य वर्तमानता । कथमित्यादि । गुणकथनं स्तवः, नमस्कारश्च तदुद्दिश्य स्वापकर्षबोधानुकूलव्यापारविशेष:, तथापि नमस्कारस्य गुणाधिक्यसूचकत्वात् स्तवत्वं न व्यभिचरतीति । यद्वा सर्वज्ञादिस्तुतिपद– सम्बन्धित्वाद् नमस्कारस्यापि स्तवत्वमुच्यते । तथाहि कादम्बर्यादाविति - एकद्वित्रिदेवतानमस्कारसम्भवेऽपि तावन्न भवतीत्यपेरर्थः ।
१५
कादम्बर्यादाविति यदा बहुव्रीहिस्तदायमर्थः कुत्रचिद् वाचनिकः कुत्रचिच्च कायिकः । अपिशब्दः पुनरर्थे । ननु यथा कारणीभूते दण्डे विद्यमाने कुलालादेरभावाद् घटानुत्पत्तावपि दण्डस्य कारणत्वं न व्यभिचरति । तद्वदत्रापि, इत्याह- क्वचिद् इत्यादि | क्वचिद् ग्रन्थे इत्यर्थः । कुत्र नास्ति नमस्काराभिधानम् इत्याह- शिशुपाल इत्यादि । अथ भवतु नामाप्रस्तुतत्वम्, तथापि क्रियते इति चेत् - अप्रस्तुताभिधायी स्यात् । ततः किमिति चेत् - य एवाप्रस्तुताभिधायी स एवोपालभ्यत इति दर्शयितुमाह - तथा चेत्यादि । ननु " एकदा तूभयप्राप्तौ कर्मण्येव न कर्तरि' इति नियमाद् व्याख्यातुकामस्येति कथं कर्तरि षष्ठी ? कथं वा 'षट्पदार्थोपवर्णनम्' इति षष्ठी
१.
द्र० - उभयप्राप्तौ कर्मणि ( पा० २।३।८ ) ।