________________
कातन्वव्याकरणम्
समासः “कर्तृप्रयोगे नियमार्थायाः' (कात० प०, स० ९१) इति परिशिष्टवचनेन निषिद्धत्वात् ? सत्यम् । व्याख्यातुकामस्य इत्यत्र सम्बन्धे षष्ठी, न कर्तरि । एवं चोभयप्राप्तेरभावात् कर्मण्येव न कर्तरीति नियमाभावात् समासो भवत्येव । ननु 'षट्पदार्थोपवर्णनम्' इति कः समासः ? न तावत् कर्मधारयः, "दिक्संख्ये संज्ञायाम्" (पा० २।१।५०) इति नियमात् । समाहारे च ईप्रत्ययप्रसङ्गान्न समाहारः । सत्यम्, समाहारद्विगुरयं समासान्तविधेरनित्यत्वादीप्रत्ययाभावः । यद् वा द्रव्यगुणादीनामियं संज्ञेति कर्मधारय एव । अथवा षण्णां पदार्थानामुपवर्णनं यत्र ग्रन्थे इति भिन्नाधिकरणबहुव्रीहिरिति । “आगामिवर्तमानाहर्युक्तायाम्" इतिवत् त्रिपदतत्पुरुषो
वेति ।
ननु किमर्थं सम्बन्धप्रयोजनाभिधानम् ? न चादौ संबन्धं प्रयोजनं च ज्ञात्वा विगतशङ्कः सन् प्रवर्तते इति वाच्यम्, इतरेतराश्रयदोषात् । तथाहि - प्रवृत्तो हि संबन्धादिकं जानाति, ज्ञातसम्बन्धप्रयोजनश्च प्रवर्तते इति । एतदेव मनसि कृत्वा आह - न चेत्यादि । ननु अनधीतशास्त्रं पुरुषं सम्बन्धप्रयोजनप्रतिपादकेन वचनशतेनाप्येतत् सम्बन्धप्रयोजनं प्रतिपादयितुं शक्यते, न चेति वस्त्वर्थ : । तर्हि कथमनधीतशास्त्रशब्दात् कर्मणि षष्ठी ? तुम्-प्रयोगे "न निष्ठादिषु' (२|४|४२) इत्यनेन निषिद्धत्वाद् द्वितीयैव युज्यते | सत्यम्, तादर्थ्यसम्बन्धविवक्षायां षष्ठी । यत एतच्छब्दोक्तस्य सम्बन्धप्रयोजनस्यैवानिनन्तकर्तृत्वम्, न त्वनधीतशास्त्रस्य । अन्यथा सम्बन्धप्रयोजनं प्रतिपद्यमानं पुरुषं यदि तत् प्रतिपादयितुं न शक्नोति, तदा प्रतिपादयितुरेव दूषणं स्यात्, न तु सम्बन्धाद्यभिधानस्य । एतदेवोमापतिराह -
तादर्थ्यसम्बन्धभवैव षष्ठी नात्र द्वितीया त्वनधीतशास्त्रात् ।
यस्मादशक्या प्रतिपत्तिरेषा न प्रेषणं तद्विषयस्त्विनर्थः॥ एतदसङ्गतमिव लक्ष्यते ।तथाहि शक्यते' इत्यनेनोक्तार्थत्वाद् अनधीतशास्त्रशब्दात् कथं द्वितीया, अपि तु प्रथमैव । अतो नात्र प्रथमेति वक्तुं युज्यते । अपि च प्रतिपत्तिं विना प्रतिपादना न घटते, तत् कथं प्रतिपत्तिविषयः कारितार्थः शक्य इति, न हि कर्तृद्वारा क्रियामनिष्पादयतामपि हेतुकर्तृत्वं घटते ।
अपरे अनधीतं च तत् शास्त्रं चेति अनधीतशास्त्रम्, तस्य वचनशतेन कर्तृभूतेन एतत् सम्बन्धप्रयोजनं प्रतिपादयितुं शक्यते न चेत्याहुः । अनधीतशास्त्रस्य सम्बन्धप्रयोजनमिति वा । तन्न शोभनम्, परपङ्क्तौ समधिगतसकलशास्त्रार्थशब्देन