________________
सन्धिप्रकरणे प्रथमः सञ्ज्ञापादः
पुरुषस्यैवोक्तत्वात् प्रक्रमाशुद्धेः । अन्ये तु अनधीतशास्त्रस्य पुरुषस्य स्थाने एतत् सम्बन्धप्रयोजनादिकं प्रतिपादयितुं शक्यते न चेत्यर्थ इत्याहुः । अथ अधीतशास्त्रार्थं भविष्यतीत्याशङ्क्याह - समधिगत इति । हिशब्दो यस्मादर्थेऽवधारणे वा । तदेतद् इति । तद्भगवद्वृत्तिकर्तुः श्लोकपूर्वार्द्ध यन्नमस्कारवैफल्यभाषणम्, तत् सर्वमनुचितमित्यर्थः । (तत् पूर्वार्द्धम्, एतच्च परार्द्धमित्यपि पाठो दृश्यते) । वाक्यभेदात् चकारोऽत्राध्याहार्य्यः। एतदेव व्यक्तीकुर्वन्नाह - अभिमत इति । प्रेक्षेति -
यस्यामुत्पद्यमानायामविद्या नाशमर्हति ।
१७
विवेककारिणी बुद्धिः सा प्रेक्षेत्यभिधीयते ॥
( द्र०, व्या० द० इति०, पृ० ३१३ ) प्रेक्षैव पूर्वं यस्मिन् करणे, तत् कर्तुं शीलं येषां ते तथा । अभीष्टेत्यादि । पुरः सरमिति कार्यविशेषणं क्रियाविशेषणं वा ।
ननु तेऽपि पण्डिताः कथमेवं कुर्वन्तीत्याह - तथा चेति । ननु निष्फले कर्मणि शिष्टा एव कथं प्रवर्तन्ते इत्याह- नमस्कारेत्यादि । अविघ्नितेत्यादि । अविघ्नः संजातोऽस्या इति तारकादित्वादितच् । प्रसरतीति प्रसरा विश्वव्यापिनी, पचादित्वाद् अच् । अविघ्निता चासौ प्रसरा चेति कर्मधारयः । समर्थिता परैरनभिभवनीया (परैरनिन्दितेत्यर्थः) । अवष्टम्भ आश्रयः । " अवादौर्जित्यनिकटा श्रयेषु ” ( कात० परि०ष० २७) इति षत्वम् | सोऽप्यनुचित इति । अपिशब्दः पुनरर्थे नतु समुच्चये, समुच्चीयमानपरपक्षस्याङ्गीकारात् । शास्त्रान्तरेत्यादि । न्यायशास्त्रप्रसिद्धैरनुमानैरित्यर्थः। अनुमानं चैतत्, नमस्कारो धर्मजनकोऽविगीतालौकिकशिष्टक्रियमाणत्वात् । यद् यद् अविगीतालौकिकशिष्टक्रियमाणं तत् तत् कर्मजनकं दर्शवत् प्रमाणेनोपलब्धमिति । तथा च नमस्कारसाध्यो धर्म उपकारसमर्थः प्रेक्षावत् साधनसाध्यत्वात् । यद् यत् प्रेक्षावत् साधनसाध्यं तत्तदुपकारसमर्थं यागधर्मवत् ।
ननु यदि नमस्कारः सफलः, कथं तर्हि कादम्बर्यादौ व्यभिचार इत्याह - यत्रेति । ननु तत्रैव कुतोऽधर्मस्य प्राचुर्यं ज्ञातमित्याह - कार्यस्य इत्यादि । कार्यस्य सिद्धिर्न भवतीति हेतोरनुमीयते इत्यर्थः । उपसंहरन्नाह - तेनेत्यादि । इवशब्दोऽत्रासम्भावनायाम्, मात्रशब्दोऽवधारणे । प्रतिबन्धुम् = दूरीकर्तुम् इत्यर्थः । भूयांसम् इति ।