________________
कातन्वव्याकरणम्
बहुशब्दादीयन्सुप्रत्ययः । “बहोर्यादिभूश्च'' इति बहुशब्दस्य भूरादेशः, ईकारस्य च लोपः।
ननु यदि नमस्कारसाध्यो धर्मोऽधर्मप्रतिबन्धनाय न क्षमस्तर्हि नमस्कारेण किं कृतम् इत्याह - तस्य इति । यदुत इति । यत् पुनरित्यर्थः । धर्मश्चानेकसाधनसाध्य इति । तथा चोक्तम् -
इज्याध्ययनदानानि तपः सत्यं धृतिः क्षमा।
अलोभ इति मार्गोऽयं धर्मश्चाष्टविधः स्मृतः॥इति। यद्येवं नमस्कारपुरःसरमेव कार्यं समारभन्ते इति यदुक्तम्, तदसङ्गतमित्याह - कथं चैतद् इत्यादि । इदानीं शास्त्रादौ सम्बन्धप्रयोजनाभिधाने हेतुमुक्त्वा न चैतदित्यादिना कृतदेश्यसिद्धान्तमाह - न चैतन्न शक्यते इत्यादि । अथेतरेतराश्रयरूपं दूषणं यदुक्तं तन्नोचितम्, यतो यलपूर्वकप्रवृत्तौ हि पुरुषः प्रयोजनादिकमपेक्षते, न त्वनुभवकृतायाम् । घनगर्जितेष्टवियोगादिवदनपेक्षितस्यापि मनसि कृत्वा ई- वचनाद् इत्यादि । अन्यैरन्यथैव व्याख्यायते ।अर्थस्याधिगतिर्धर्माद् वचनादिति वचनविशेषणेऽपि “नामिनः स्वरे" (२।२।१२) इति न नुरागमः, “भाषितपुंस्कम्” (२।२।१४) इत्यादिना पुंवद्भावात् । वचनाद् याऽर्थाधिगतिस्तत्सकाशाद् इति व्यधिकरणेऽपि न दोषः । अर्थस्याधिगतिर्यस्माद् गुवदिस्तस्य वचनादिति वा ।
ननु यस्मिन् पक्षेऽनधीतशास्त्रशब्देन पुरुष उच्यते, तस्मिन् पक्षे तस्य पुरुषस्य कर्तृकर्मज्ञानमेव नास्ति, तस्य घनगर्जितवद्ग्रहणेनापि कथमर्थबोधः, येन तत्र प्रवर्तिष्यते (प्रवृत्तिरिष्यते) ।सत्यम्, अनधीतशास्त्रशब्देनात्रानधीतशास्त्रं पुरुषं प्रति मम यलोऽयमिति | एतदेवोपसंहरति-वचनाद्धि इति । ननु च इत्यादि । ननु कायादिव्यापार एव नमस्कारः कथं तज्जन्मेत्युच्यते ? सत्यम् | कायव्यापारशब्देनात्र हस्तादिपरिस्पन्दनलक्षणः प्रथमव्यापार उच्यते, तद्व्यापारजन्यस्य करशिरःसंयोगादिरूपस्य शेषव्यापारस्य नायव्यापारजन्यत्वम् इति ।
तथा च साङ्ख्यमते वाक्शब्देन वागिन्द्रियमुच्यते, उच्यतेऽनया इति व्युत्पत्त्या । तद्व्यापारो वाय्वभिघातस्तज्जन्मा वाचनिकनमस्कार इत्यर्थः । एवं मनोव्यापारशब्देन
१. २.
बहोर्लोपो भू च बहोः (पा०६।३।१५८)। द्र०, पा०शि०-श्लो० ६,९