________________
सन्धिप्रकरणे प्रथमः सजापादः आत्ममनःसंयोग उच्यते, तदनन्तरं य आराध्यसम्बन्धः स एव मानसिकनमस्कार इति । तथा च - "आत्मा मनसा संयुज्यते, मन इन्द्रियेण, इन्द्रियम् अर्थेन" इति क्रमः । सङ्कल्पेत्यादि । मानसक्रियास्वरूपाधीनत्वादित्यर्थः । तस्मिन् ध्येये, एकाग्रता = तत्परता, सैव लक्षणं चिह्नं यस्य स तथा । गच्छतस्तृणादिस्पर्शज्ञानवद् अन्यस्मिन्नपि कर्मणि ध्येयगतरूपादिग्रहणेऽपि मनोव्यापारो भवतीति भावः । ध्येयगतरूपादिदर्शनादन्यदितरव्यापारशब्देनोच्यते । समतालक्षण एकतास्वरूपः, तत्र हि तदात्मलयवशाद् ध्येयमभेदे जानन्, तेन सहैकता, सोऽहमिति, ममायं ध्येय इत्यपि ज्ञानं न भवति । ग्रन्थादौ निबन्धनान्नमस्कारस्य वाचनिकत्वमेव संभवतीत्यङ्गीकृत्य आह - तत् केन इत्यादि । अवधारणस्यानुपपत्तेरिति । कायिकमानसिकयोरकृतत्वे प्रमाणाभावाद् वाचनिक एव नमस्कारः कृतः, न तु कायिकमानसिकाविति स्वरूपनिश्चयस्यानुपपत्तेरित्यर्थः । ननु यथा असत्त्वे प्रमाणं नास्ति तथा सत्त्वेऽपि प्रमाणं नास्तीत्याह -- अथवा इति । सत्त्वप्रतिनेति पाठे द्विधा देश्यार्थः । तथाहि कथं वाचा निबन्धं ग्रन्थादौ लिखितमकार्षीत्, नमस्कारनिबन्धो ग्रन्थादौ कर्तव्य इति नियमाभावादित्येकं देश्यम् । अन्यच्च वाचनिकं वाग्व्यापाररूपमेव न कायादिव्यापाररूपमिति ।
अत्राचे सिद्धान्तयति - न देश्यम् इति । कायमनोव्यापारजन्मनोऽपीत्यपिशब्दाद् वाचनिकस्यापि नमस्कारस्य निबन्धं विना शिष्यं प्रति सत्त्वज्ञापने प्रमाणाभावात् । अत्र नमस्कारः कृत इत्यवधारणानुपपत्तेः । अतो नमस्कारनिबन्धो युक्त इत्यभिप्रायः । अन्तपक्षे सिद्धान्तयति – अथवेति । अवश्यं शिष्यशिक्षार्थं नमस्काराणां युक्तत्वम् । वाचनिकस्य शास्त्रस्य प्रस्तावात् स वाचनिक एव लाघवादौचित्याच्च न्याय्य इति ।
ननु वाचनिकमेव शास्त्रम्, न त्ववाचनिकमिति व्यर्थं वाचनिकपदम्, व्यावृत्तेरभावात् ? सत्यम् । उच्यतेऽर्थोऽनेनेति वचनं शब्दः, करणे युट्; "तेन दीव्यति" (२।६।८) इतीकण् । तेनायमर्थः शब्द एव प्रयोजनमस्येति वाचनिकम्। ततो वाचनिकपदेन शाब्दिकमुच्यते । अत एव शाब्दिकशास्त्रप्रस्तावान्नमस्कारोऽपि शाब्दिक एव युज्यते, व्याकरणस्य शब्दप्रधानत्वाद् इति भावः । वाचनिकपदं स्वरूपविशेषणमिति कश्चित् । तन्मते मेरुमहीधरादिवद् व्यवच्छेद्याभावेऽपि कर्मधारयः । अन्ये तु यदा शास्त्रशब्दस्य केषांचित् सङ्केतादिनाऽर्थान्तरशड्का,तदा वाचनिकस्यार्थान्तरव्यवच्छेदकस्य कर्मधारय इत्याहुः । मूर्खास्तु अवाचनिकमपि गारुडादिशास्त्रमस्ति, तद्व्यवच्छेदार्थं वाचनिकपदम् इत्याहुः ।