________________
कातन्त्रव्याकरणम्
ननु कथं नमस्कारस्य वाचनिकत्वं निश्चितम्, यावता कायिकमानसिकावपि कृत्वा शिष्यशिक्षार्थं लिखितुं शक्यत इति चेत्, शिष्यशिक्षार्थमवश्यं लेखनं कर्तव्यम् । लेखनञ्च पाठपूर्वकमेव भवति, तस्माल्लाघवात् स एव पाठो नमस्कारत्वेन कल्प्यत इत्यालोच्याह – किमत्र इति । ननु तथापि न्यूनता, यावता नमःकारान्तरापेक्षयाऽस्या महत्त्वं पौराणिकैरुक्तमिति ? सत्यम् । यावता नमस्कारान्तरावपि संभवतस्तथापि वचनगतकुशलतामभिसंधाय वाचनिक एव कृत इति । किञ्च -
स्वकृतश्च परोक्तश्च पुराणोक्तश्च स विधा।
वाग्रूपोऽपि नमस्कार उत्तमाधममध्यमाः॥ इति । तत्र इत्यादि । दिधातोरुकारः “उदनुबन्धपूक्लिशाम्" (४।६। ८४) इत्यस्य विशेषणार्थः । अमङ्गलार्थकत्वाद् ‘देवृ देवने' (१।४२१) इत्यस्य न ग्रहणम् । तथा च 'भट्टमल्लः – देवनं रोदनमिति केचिदाहुः । प्रणम्य इति । “प्रपूर्वाण्णमेो नः" (३।८।२५) इति मूर्धन्यस्य दन्त्यः,"२उपसर्गादसमासे णोपदे "स्य" (पा० ८।४।६४) इति पुनर्णत्वम् ।
ननु कथमत्र समासाश्रितो यबादेशः . प्रादीनां नामत्वाभावेन "नाम्नां समासो युक्तार्थः" (२।५।१) इत्यस्याविषयत्वात्, नामानि वस्तुवाचीन्येव, उपसर्गाणां तु धातुवाच्यार्थद्योतकतया वस्तुवाचित्वं नास्ति । तथा च "नाम्नि वदः क्यप् च" (४।२।२०) इत्यत्र नाम्नीति किम् ? अनुवाद्यमिति प्रत्युदाहृतम् । ननु वस्तुवाचित्वात् पचतीत्यादीनामपि नामत्वे 'देवदत्तः पचति' इत्यादावपि समास · स्यादिति न वाच्यम्, "आख्याताच्च तमादयः"(२।६।४०) इत्यत्र आख्यातग्रहणादाख्यातभिन्नस्यैव नामत्वमिति ज्ञापितत्वात् ।अन्यथा नामद्वारेणैवाख्यातादपि तमादयः सिद्धाः, पिम् आख्यातग्रहणेनेति । अत्र हेमकरः- “प्रादीनां नामत्वमस्तीति समासः" । “यस्मात् स्यादयस्तन्नाम" इति
१. भट्टमल्लः कश्चिद् धातुव्याख्याकार इति स्मर्यते रमानाथेन स्वकीयकातन्त्रधातुवृत्तौ -
क्षुणाति च क्षुणीते च क्षुणोत्याप्लवनेऽपि च ।
क्षन्दते सुन्दते वापि षडाप्लवनवाचिनः॥ इति भट्टमल्लः (कात०धा०वृ०', भू०२९७)। २. उपसर्गाण्णोपदेशस्य (कात० परि० - ण० १६) ।
हेमकरः कश्चित् कातन्त्रसूत्रध्याख्याकार आसीदिति व्याख्यासारादिवचनैर्विज्ञायते । द्र०कात० व्या० वि०, पृ० १७ ।