________________
सन्धिप्रकरणे प्रथमः सञ्ज्ञापादः
नामलक्षणम् । तथाहि नामप्रकरणं लिङ्गप्रकरणं चोच्यते । वस्तुवाचीनीति यदुक्तं तस्यायमभिप्रायः– ननु वर्णमयानि घटपटादीनि नामानि तानि कीदृशानि येन युक्तार्थः समास इत्याह – वस्तुवाचीनि इति ।
1
यद्येवम् 'अनुवाद्यम्' इत्यत्र " नाम्नि वदः क्यप् च (४।२।२० ) इति क्यप् स्यात्, नैवम् । प्रत्ययविधानं प्रति उपसर्गाणां नामत्वं नास्ति " उपसर्गे त्वातो: " (४।२।५२) इति ज्ञापकात् । अन्यथा " नाम्नि स्थश्च " ( ४ | ३ | ५) इति कप्रत्यये 'सुग्लः, सुम्ल:' इति सिध्यति । न च तर्हि 'प्रज्यः, प्रह्वः' इत्यत्र कप्रत्यये सम्प्रसारणे इयुवादेशस्य विषयत्वान्न सिध्यतीति वाच्यम्, “अन्यतोऽपि च " ( ४ | ३ | ४९) इति डप्रत्ययेनैव सिद्धत्वात् | यथा 'मित्रह्वः, ब्रह्मज्यः' इत्यत्र " आतोऽनुपसर्गात् ” ( ४ | ३ | ४) को न भवतीति प्राह । तन्न, नामत्वेऽपि युक्तार्थत्वाभावात् कथं समासः स्यात् । तथाहि - टीकायां नामपदानां युक्तार्थः समासाख्यो भवति, शब्दार्थयोर्वाच्यवाचकलक्षणः संबन्ध इति शब्द एव समाससंज्ञाफलं लभते तस्मात् प्रादीनां वाचकत्वाभावाद् युक्तार्थतैव नास्तीति । अत्र सिद्धान्त उच्यते, नात्र "नाम्नां समासो युक्तार्थः " ( २।५ ।१ ) इति समासः, किन्तु “" अनुकरणं च कृता" इति वचनात् ।
"
"
-
अस्यायमर्थः - अनुकरणं समस्यते कृता कृदन्तेन सह । चकारात् प्रादपः समस्यन्ते । ननु “उपसर्गादसमासेऽपि गोपदेशस्य " ( पा० ८ । ४ । १४) इत्यत्रासमासग्रहणात् कथं णत्वम् ? सत्यम्, समासपदेनात्र “नाम्नां समासो युक्तार्थः ' (२।५।१ ) इत्यनेन विहितस्य समासस्य ग्रहणम्, मुख्यत्वात् । अतोऽत्र " " अनुकरणं च कृता " इत्यनेन समासस्य विहितत्वाद् णत्वं भवत्येव । यद् वा यदत्र असमासग्रहणं तद् यत्रोपसर्गता नास्ति तद्व्यावर्तनार्थं बोध्यम् । 'उवृत्तो हि ग्रन्थः समधिकं फलमाचष्टे' इति न्यायात् । तेन प्रगतो नायको यस्मात् स 'प्रनायको देशः' इत्यत्र णत्वं न भवति । अथात्र उपसर्गता कथं नास्तीति चेदुच्यते - यत्क्रियायुक्ताः प्रादयस्तं प्रत्युपसर्गाः’ इति न्यायात् । अत्र गतिक्रियासम्बन्धिनः प्रशब्दस्य नयतिं प्रत्युपसर्गत्वं नास्त्येव ।
१.
२.
२१
३.
द्र०- अनुकरणं चानितिपरम् (पा० १।४।६२), कुगतिप्रादयः (पा० २।२।१८ ) । इङ्गितेनोन्मिषितेन महता वा सूत्रप्रबन्धेनाचार्याणामभिप्रायो लक्ष्यते (का० वृ० न्यास०
१।१।७) ।
प्रादयः, उपसर्गाः क्रियायोगे ( पा० १।४।५८, ५९);
यतक्रियायुक्तस्तं प्रति गितिसंज्ञको भवति (जै० परि० वृ०, परि० ९९ ) ।