________________
कातन्त्रव्याकरणम् यद्येवम्, उपसर्गत्वाभावादेव न भवति किमसमासग्रहणेन ? प्रशब्दोऽयं गतिक्रियां प्रत्युपसर्गत्वेन दृष्टः, अतो भूतपूर्वगत्या कदाचिदिहाप्युपसर्गत्वाशङ्का स्यात्, अतोऽसमासग्रहणमिति ।
ननु षष्ठी त्रिविधा सम्भवति - कृल्लक्षणा, सम्बन्धलक्षणा, निर्धारणलक्षणा च | तदत्र कस्या ग्रहणमित्याह - सम्बन्ध इत्यादि । च पुनरर्थे । ननु कथमत्र षष्ठीसमासो व्यवच्छेद्याभावात् ? तथाहि यत्रोभयोर्व्यवच्छेद्यव्यवच्छेदकभावस्तत्र षष्ठीसमास इति । अत्र तु स एव देवो देवानां स्वामी, नान्य इति । यथा देवेन देवाः स्वाम्यन्तराद् व्यवच्छिद्यन्ते, न तथा स देवो देवानामेव आराध्य इत्याराधकान्तराद् व्यवच्छिद्यते । मादृशानामपि तदाराधकत्वाद् अनाराधकत्वे नमस्कारोऽयुक्तः स्यात् ? सत्यम्, एकतरव्यवच्छेदेऽपि षष्ठीसमासो दृश्यते । यथा 'कर्णकुण्डलं करिकरभः' इति । अथ कर्णादिपदमप्रयुक्तम् इति चेत्, न | स्वरूपविशेषणस्यापीष्टत्वादिति कुलचन्द्रः |
महान्तस्तु 'अहो रे गरीयान् कालः समागतः, यदश्रुतं श्रावयति अदृष्टमपि दर्शयति, न हि पाणिनिकातन्त्रादितन्त्रे उभयोर्व्यवच्छेद्यव्यवच्छेदकभाव एव षष्ठीसमास आदृतः, कर्णकुण्डलादिपददर्शनात् । अथ कदाचित् कुण्डलाधारं करादिकं व्यावर्त्य कर्णारूढत्वप्रतिपादनाय यदि कर्णादिशब्दप्रयोगस्तदा संभवतीति चेद्, भवतु । भूष्यभूषकभावसंबन्धे कः समाधिः ? अपप्रयोग इति चेत्, दृष्टस्त्वमपरो भगवान् ईश्वरः, यतः साधुत्वासाधुत्वे स्वयमेव नियमयसि । एवं प्रमेयाधारः सर्वेश्वर इत्यादयः शिष्टप्रयोगा दृश्यन्ते इत्याहुः । तर्हि यत्रोभयोर्व्यवच्छेद्यव्यवच्छेदकभावस्तत्र षष्ठी समस्यते इति यदुक्तं तत् कथं संगच्छते इति चेत्, कटी शृणोति, न तु मादृशः । ___ अन्ये तु- अत्रोभयोर्व्यवच्छेद्यव्यवच्छेदकभावो घटत एव । यतः ‘सामान्ये विशेषबुद्धिजनकत्वं व्यवच्छेदकत्वम्' इति जयादित्यादिभिर्ग्रन्थकृभिरुक्तम्, तच्चोभयोरेव परस्परं विद्यते । तथाहि - देवा देवस्याराध्यत्वेन बुद्धिं जनयन्ति । अन्यथा केवलं 'देव' इत्युक्ते तस्याराध्यत्वं न प्रतीयते, किन्तु दिविस्थत्वमेव प्रतीयते । एतेन विशेषबुद्धिजनकत्वाद् देवा व्यवच्छेदकाः । दिविस्थत्वमात्रादाराध्यत्वेन देवो व्यवच्छिद्यते इति देवस्य व्यवच्छेद्यत्वम्, तथा इन्द्रादयो देवा ममैवाराधका इति देवोऽपि देवानामेवाराधकत्वेन विशेषबुद्धिं जनयति, अन्यथा केवलं देवानामित्युक्ते सामान्यसम्बन्धः प्रतीयते । एतेन सामान्ये विशेषबुद्धिजनकत्वाद्देवस्य व्यवच्छेदकत्वम्, सामान्यसंबन्धिभ्यो देवा व्यवच्छिद्यन्ते इति देवानां व्यवच्छेद्यत्वम् । वस्तुतस्तु यथा 'राज्ञः पुरुषः' इति