________________
सन्धिप्रकरणे प्रथमः सज्ञापादः वाक्ये राजा स्वाम्यन्तराद् व्यवच्छिद्यते, पुरुषश्च स्वान्तरात्, तथा देवदेवम् इत्यत्र बोध्यम् । तथाहि – 'देवानां देवः' इति वाक्ये आराधकैर्देवैरन्येभ्य आराधकेभ्य आत्मानो व्यवच्छिद्यन्ते । अतो देवानां व्यवच्छेदकत्वं व्यवच्छेद्यत्वं च । ___ अयं भावः - देवा वदन्ति अस्माकमेवाराध्योऽयं देवो नान्येषाम्, भगवदाराधकत्वमन्याराधकेभ्यो व्यवच्छिद्य देवा आत्मनि स्थापयन्ति, तथा आराध्येन देवेन अन्यस्मादाराध्यादात्मा व्यवच्छिद्यते । अतो देवस्य व्यवच्छेद्यत्वं व्यवच्छेदकत्वं च । ___अयं भावः- देवो वदति 'एते देवा ममैवाराधका नान्यस्य इत्याराध्यत्वमन्यस्मादाराध्याद् व्यवच्छिद्य आत्मनि देवः स्थापयति । एतप्रकारस्य समासमात्रौपयिकत्वाद् देवानामेवाराध्योऽयं कथमसौ शास्त्रका नमस्क्रियते इति नास्ति देश्यावतार इति । नहि नरपतेरश्वादिपतित्वं नास्तीति । अत एव 'देवानामपि देवः' इत्यत्र 'त्रिलोचनोऽपिशब्दं दत्तवान्, किन्त्वस्मिन् पक्षे 'कुलचन्द्रेण यदुक्तम् “यथा देवेन देवाः स्वाम्यन्तराद् व्यवच्छिद्यन्ते न तथा स देवदेवः" इति । तच्चिन्त्यम्, टीकाविरोधात् । वस्तुतस्तु समासराशेर्नित्यत्वादखण्ड एवायं शब्दः । तथाहि - "देवदेवो महादेवो लेलिहानो वृषध्वजः" इति ।
ननु आराध्याराधकसम्बन्धस्योभयनिष्ठत्वात् परदेवशब्दान्न कथं षष्ठी ? नैवम् । तत्र द्वितीयैवास्ति बाधिकेति, किन्तु भेदकादेव षष्ठी, न तु भेद्यात् । तदुक्तम् -
भेयभेदकयोः श्लिष्टः सम्बन्धोऽन्योऽन्यमिष्यते।
द्विष्ठो ययपि संबन्धः षष्ठ्युत्पत्तिस्तु भेदकात् ॥ इति । भेदकं विशेषणम्, भेद्यो विशेष्यः, न तु निर्धारणे इति । अत्र कुलचन्द्रः आक्षिपति पञ्जिकाम् । तथाहि - नात्र निर्धारणप्रसङ्गो जात्यादेरभावात् । तथाहिजातिगुणक्रियाभिः समुदायादेकदेशस्य पृथक्करणं निर्धारणम् । यथा जाती-पुरुषाणां
१. कातन्त्रवृत्तिपञ्जिकाकारस्त्रिलोचनः । २. दुर्गवाक्यप्रबोधनामकव्याख्यायाः प्रणेता | साम्प्रतं तद्व्याख्यांशो धातुसूत्रीयः कारकपादीयश्च
संप्राप्यते । ३. काशिका २।२।१०।