________________
२४
कातन्त्रव्याकरणम्
क्षत्रियः शूरः । गुणे - गवां कृष्णा सम्पन्नक्षीरा । क्रियायाम् – गच्छतां धावन्तः शीघ्राः इति । तत्कथम् एकतमस्याभावे देवदेवमित्यत्र स्यादिति । अत्र केचिद् देवानां मध्ये यो देवो महान् इति महत्त्वगुणेन निर्धार्यते इति वदन्ति, तन्न । शूरादिपदवद् महच्छब्दस्यानुपात्तत्वात्, अध्याहारेऽपि प्रमाणाभावात् । ___अपरे त्वाहुः- बहुषु घटेषु मध्ये घटमानयेत्यादिवद् इहाप्येकवचनेन एकत्वाभिधानम्, बहूनां देवानां मध्ये देवमित्येकत्वगुणेन निर्धार्यते इति । तदप्यसङ्गतम्, बहूनां मध्ये सर्वेषामेव प्रत्येकमेकत्वस्य विश्रान्तत्वात् कृष्णादिपदवत् शब्दानुपात्तत्वाच्च । महान्तस्तु - ‘क्रियाप्रधानसर्वज्ञादिपदसान्निध्याद् बहूनां देवानां मध्ये सर्वज्ञं देवं प्रणम्येत्यर्थे 'गच्छतां धावन्तः शीघ्राः' इत्यादिवन्निर्धारणं निर्विवादमेव घटते' इति प्राहुः । तन्न, यावता 'पुरुषाणां मध्ये क्षत्रियः शूरः' इत्यादिषु यथा समुदायस्य पुरुषशब्दस्य निर्धारणेन क्षत्रियपदेन समासयोग्यताऽस्ति, न तथा प्रथमदेवशब्दस्य निर्धारणेन सर्वज्ञपदेनेति, किन्तु परदेवशब्देन सहास्ति । ___ अथात्र यथा निर्धार्येण परदेवशब्देन समासप्राप्तिविचारः, तथा अत्रापि निर्पिण शूरपदेनेति न वाच्यम्, यावता निर्धारणे या षष्ठी तस्याः शूरादिपदापेक्षया निर्धारणप्रत्ययात् न समास इति टीकायामुक्तत्वात् । तस्मादेवमुच्यते-देवानां मध्ये यो देवः सर्वनियोजकः स सर्वज्ञ इति निर्धार्यते । एवं सति समासयोग्यताऽस्ति ।
परमार्थतस्तु जातिक्रियागुणाभावेऽपि यथा केनचिद् विशेषणेन पुरुषोत्तम इति समस्यते, तद्वदत्रापि समासप्राप्तिः । तथा च शङ्कराचार्यचरणाः सहस्र' नामभाष्ये (वि० स० ना०-श्लो० १६) “पुरुषोत्तम इति निर्धारणषष्ठ्याः समासः “न निर्धारणे" (पा० २।२।१०) इति प्रतिषेधो न भवति जात्याद्यनपेक्षया समर्थत्वात् । यत्र च जातिगुणक्रियापेक्षया पृथक् क्रियते तत्रासमासः' इति । अत एव उमापतिना यदुक्तम् - 'षष्ठ्या अयुक्तार्थतयाऽसमासोऽत्राभावमात्रे प्रतिषेधशब्दः' इति, तदसङ्गतमेव | पुरुषोत्तमशब्दवदत्रापि युक्तार्थाभावस्य विद्यमानत्वादिति । तस्मात्
१.
अथवा पञ्चमीसमासः, तथा च भगवद्वचनम् - यस्मात् क्षरमतीतोऽहमक्षरादपि चोत्तमः। अतोऽस्मि लोके वेदे च प्रथितः पुरुषोत्तमः॥ (गीता १५।१८)।