________________
सन्धिप्रकरणे प्रथमः सज्ञापादः लक्षणेन प्रसक्तस्य समासस्यानभिधानेन निराकृतत्वात् पञ्जिकायां यत् प्रतिषेधोपादानं तद् युक्तमेव, अभिधानस्य प्रयोगानुसारित्वात् 'पुरुषोत्तमः' इत्यत्र समासः स्यादिति ब्रूमः । तमित्त्थमित्यादि । ननु क्रीडतामाराध्यं क्रीडन्तमित्यर्थे को विशेषः प्रतीयते इत्याह - सर्वज्ञम् इति । यद्यपि नमतिरयमकर्मकः, यथा 'नमन्ति फलिनो वृक्षाः' इति, 'इक्ष्वाकुवंशगुरवे प्रयतः प्रणम्य' (रघु० १३।७०) इति, तथापि नमिरयं पूजार्थे सकर्मकः, अवनतिमात्रार्थे त्वकर्मकः।
वस्तुतस्तु यदुद्दिश्य स्वापकर्षबोधानुकूलव्यापारविशेषः स तस्य नमस्कार इति नमस्कारलक्षणे सति उद्देशक्रियान्तर्भावात् सकर्मकता । ननु तथापि 'नमः शिवाय' इतिवत् 'देवदेवं प्रणम्य' इति स्वरूप एव वाचनिकनमस्कारो नमेरर्थः । ततश्च देवदेवम् इति कथं कर्मत्वम् ? न ह्यात्मनो व्याप्य आत्मा भवितुमर्हति, नैवम् । ‘प्रणम्य' इति पदमात्रं वाचनिकनमस्कारः । अतो व्याप्यताऽस्ति, किन्तु नमस्कारप्रधानत्वाद् वाक्यस्यापि वाचनिकनमस्कारत्वमित्यदोषः । ननु आदिशब्दस्य कतमोऽर्थः ? न तावत् सामीप्यार्थः, तदा ग्रन्थसमीपे नमस्कृत्य व्याख्यानं प्रवक्ष्यामीत्युक्ते उपलक्षणत्वान्नमस्कारस्य ग्रन्थानिविष्टत्वाद् ग्रन्थावयवत्वं न स्यात् ।
अथ न स्यादेवेति चेत्, प्रतीतिविरोधः स्यादिति अवयवार्थोऽपि न घटते । तथाहि - ग्रन्थादौ ग्रन्थावयवे इत्यर्थे सति वाचनिकनमस्कारस्यैवाद्यावयवरूपत्वाद् देवदेवं प्रणम्यादाविति आधाराधेयभावो न घटते भेदाभावादिति नैवम्, भ्रान्तोऽसि । आदिशब्दस्य धर्मवचनत्वादाद्यवयवत्वे वर्तते । ततश्च धर्मधर्मिणोः सुतरामेवाधाराधेयभावो घटते । एवञ्चायमर्थः स्यात् - ग्रन्थादौ तदाद्यावयवीभूतं देवदेवकर्मकं नमस्कार कृत्वा व्याख्यानं वृत्तिग्रन्थं प्रवक्ष्यामीति ।
ननु तथापि नमस्कारादिसमुदायस्यैव वृत्तिग्रन्थत्वेन व्यवहारात् प्रवक्ष्यामीत्यपेक्षया पूर्वकालानुपपत्तौ क्त्वाप्रत्ययो न स्यात् । नमस्कारपुरस्सरमेव कार्यं समारभन्त इति शिष्टाचारविरोधश्च स्यात् । तस्माद् दुरुत्तर एवायं पूर्वपक्षः । नैवं भ्रान्तोऽसि, न ह्यत्र व्याख्यानशब्देन समुदायग्रन्थ उच्यते, किन्तर्हि विशेषेणाख्यायतेऽनेनेति व्युत्पत्तिमहिम्ना विवरणग्रन्थ एवोच्यते । अतो विवरणापेक्षया आदिशब्दस्य
१. भगवत्पादशङ्करविरचितस्य शिवपञ्चाक्षरस्तोत्रस्य प्रतिश्लोकमन्ते 'नमः शिवाय' इति
पठ्यते ।