________________
कातन्त्रव्याकरणम् सामीप्यार्थोऽपि घटते, समुदायापेक्षया सूत्रे वक्तव्यादिवन्नमस्कारस्य ग्रन्थत्वमस्तीति न दोषः । एवञ्चावयवपक्षेऽपि नमस्कारस्य ग्रन्थत्वे विवरणापेक्षया तस्य पूर्वकालत्वमिति क्त्वाप्रत्ययः । नमस्कारपुरस्सरमेव कार्य समारभन्त इत्यत्र कार्यशब्देन उद्देश्यकार्यमेवोच्यते, अन्यथाऽनवस्था स्यात् ।
ननु तथापि किमादिग्रहणेन ? क्त्वाप्रत्ययेनैव तदर्थस्योक्तत्वादिति । सामीप्यप्रतिपादनायेति चेन्न, नमस्कारवृत्तिग्रन्थयोः सुतरामेव समीपत्वात् । अत्र अजवः- 'परकालेऽपि क्त्वाप्रत्ययो दृश्यते, यथा 'ठात्कृत्वा भग्नो दण्डः' इति । नैवम्, अत्रापि ठाच्छब्दपूर्वको दण्डो भग्न इति लौकिकविवक्षया पूर्वकाल' एव क्त्वाप्रत्यय इति । अथ 'मुखं मादाय स्वपिति' इत्यत्र परकालेऽपि क्त्वाप्रत्ययो दृश्यते । अत्र हि स्वपनानन्तरमेव मुखव्यादानमिति, तस्मात् पूर्वकालताबोधनार्थमादिग्रहणं कर्तव्यमेव । सत्यम्, अत्रापि व्यादानोत्तरमपि स्वपनमित्यभिप्रायेण प्रयोगोऽयमिति केचित् । अतः पूर्वकाल एव क्त्वाप्रत्यय इति चेत्, सुखबोधार्थमादिग्रहणम् । यथा -
प्रणम्य हेतुमीश्वरं मुनि कणादमन्वतः।
पदार्थधर्मसंग्रहः प्रवक्ष्यते महोदयः॥ (प्र० पा० भा० - मङ्ग०) इत्यत्र स्पष्टार्थोऽनुशब्दः इत्याहुः । अपरे तु आदौ सार्ववर्मिकं व्याख्यानं पश्चाद् वाररुचिकम् इति प्रतिपादनार्थम् आदिग्रहणमित्याहुः । तन्न, टीकापज्योरस्वरसात् । कुलचन्द्रस्त्वाह - सामीप्यप्रतिपादनार्थमादिग्रहणमिति चेन्न, नमस्कार-वृत्तिग्रन्थयोः सुतरामेव समीपत्वात् । तस्मात् प्रयोगाविर्भावार्थम् इति । महान्तस्तु - नतिवृत्त्योरतिसन्निकृष्टत्वप्रतिपादनार्थमादिग्रहणम् । अन्यथा शतवर्षानन्तरकृतग्रन्थेऽपि (वर्षशतोपस्थितनमस्कारस्य) पूर्वकालता सम्भवतीत्याहुः । एतच्च न चारुतरम्, यतः प्रतीतिबलेनाव्यवधान एव शक्तिग्रहः । नहि भुक्त्वा व्रजंतीत्यत्र प्रातर्भोजन - सायंगमनयोः प्रतीतिरस्ति, अपि तु अविलम्ब एव भोजनपूर्वकं गमनप्रतीतिः। --- वयं तु ब्रूमः- आदिशब्दं विना केवलं प्रणम्येत्युक्ते प्रतिसूत्रादौ नमस्कारबोधः
स्यात् । आदिग्रहणे तु आदावेवेत्यर्थे ग्रन्थसमुदायस्यादाविति लभ्यते । प्रशब्देन इति । प्रशब्दोऽयं नोपहासनिरासार्थः । उपहासनिरासस्य भक्तेर्वा नमस्कार्यतो वा प्रतीतेः ।
१.
एककर्तृकयोः पूर्वकाले (कात० ४।६।३)।