________________
सन्धिप्रकरणे प्रथमः सज्ञापादः
२७ "तन्वङ्गि ! प्रणमामि सत्यवचसा यत् पाण्डवो निर्जितः" इत्यादौ सत्यपि प्रशब्दे उपहासावगमात् । “नत्वा शङ्करवचनं ज्ञात्वा शास्त्राण्यनेकशी विदुषाम्' इत्यादौ प्रशब्दाभावेऽपि भक्तिश्रद्धातिशयेन प्रकर्षदर्शनादिति कुलचन्द्रो हसितवान् ।
अत्रेदमालोचयामः- भक्तिश्रद्धातिशयलक्षणं प्रकर्षं द्योतयता प्रशब्देन प्रकृष्टे (तादृश) एव नमस्कारो विघ्नविघाताय समर्थ इति सूच्यते, तेन शिष्या व्युत्पाद्यन्ते । अन्यथा भक्तिपूर्वकमुपहासपूर्वकं वा नमस्कारमात्रमेव फलसाधकमिति शिष्याः संभावयेयुः । अत्र च नमस्कार्ये भगवति नोपहासः संभवतीति को दोषः, निबन्धनस्य शिष्यशिक्षार्थत्वात् । योजना पुनरीदृशी । प्रशब्देन प्रकर्षार्थो द्योत्यते, अन्यथा प्रकर्षार्थद्योतकं प्रशब्दं विना प्रियतमादावुपहासपरोऽपि नमस्कारः संभवतीति हेतोर्नमस्कारमात्रमपि फलसाधकमिति शिष्याः सम्भावयेयुरिति भावः । अथवा प्रशब्देन प्रकर्षार्थो द्योत्यते, न तूच्यते । वाचकत्वे किं दूषणमित्याह - अन्यथा इति । प्रियतमादावन्यथाप्रकारोऽपि नमस्कारः संभवतीति, स एव क इत्याह-उपहास इत्यादि । एतदुक्तं भवति - यदि भक्तिश्रद्धातिशयलक्षणप्रकर्षार्थस्य वाचकः प्रशब्दः स्यात्तदा 'तन्वङ्गि ! प्रणमामि' इत्यादावपि भक्तिश्रद्धातिशयलक्षणप्रकर्षस्यावगमः स्यात् । द्योतकत्वे पुनर्यत्र यादृशो भक्तिश्रद्धातिशयलक्षणप्रकर्षो वा उपहासलक्षणप्रकर्षो वा तत्र तादृश एव द्योत्यते इति नास्ति कुलचन्द्राक्षेपः। ____ अपरे तु प्रकृते प्रशब्देन प्रकर्षार्थो द्योत्यते, प्रियतमादावन्यथोपहासो द्योत्यते इत्यर्थः । कुत इत्याह – उपहास इत्यादि, इति हेतोरित्याहुः । ताच्छील्यम् इत्यादि । ननु फलनिरपेक्षा प्रवृत्तिस्ताच्छील्यम्' इति ताच्छील्यलक्षणं तस्य भगवतस्तु कर्मणि प्रवृत्तौ फलमेव नास्तीति सद्भिर्निश्चितम्, तत् कथं तस्य फलस्य सापेक्षत्वं निरपेक्षत्वं वा संभवतीति । सत्यम्, फलाभावेऽपि फलनिरपेक्षत्वं संभवतीति । तथाहि - फलं भवतु, न भवतु वा, तन्नापेक्षत एवेति न दोषः । अन्ये तु हेतुरहितत्वमपि ताच्छील्यमिति, हेतवश्च दर्शनक्रियासाधकनेत्रादीनीति | अर्वाचीनमाधुनिकमित्यर्थः ।
इदानीं कातन्त्रपदव्युत्पत्तिरूपप्रयोजनप्रतिपादनार्थं दर्शयन्नाह - तन्त्र्यन्ते इति । "आमन्त्रिते सिः संबुद्धिः' (२।१।५) इति ज्ञापकाद् व्यञ्जनद्वयपूर्वमप्यनुषङ्गो
"ताच्छील्यं तत्स्वभावता | पुष्पाहरः । पुष्पाघाहरणे स्वाभाविकी फलानपेक्षा प्रवृत्तिरस्येत्यर्थः" (काशिका ३।२।११)। तच्छीलो यः स्वभावतः फलनिरपेक्षस्तत्र प्रवर्तते (काशिका ३।२।१३४)।