________________
कातन्त्रव्याकरणम् नकार इति कातन्त्रपदसिद्धिः । प्रवक्ष्यामीति “पचिवचिसिचि०" (३।७।१८) इत्यादिनाऽनिट् । करणे युडिति ।
अत्र कुलचन्द्रः – “सूत्रविधायकत्वात् तस्मिन् कातन्त्रे सर्ववर्मविहितं यद् व्याख्यानं तदहं वक्ष्यमाणग्रन्थेन प्रवक्ष्यामि इति ग्रन्थकारस्य किल प्रतिज्ञासीत् । अतोऽस्य वृत्तिकरणं युक्तम्, अन्यैः कृतासु वृत्तिषु सूत्रमात्रव्याख्यानात् । ये तु करणसाधनं व्याख्यानं वृत्तिग्रन्थः, सर्ववर्मकृतसूत्रसंबन्धात् सार्ववर्मिकम् इत्याहुः, तेषां मते सर्ववर्मविहितं व्याख्यानं प्रवक्ष्यामीति भावसाधनं दर्शयता टीकाकृता सह विरोधः । अन्यवृत्तितुल्या प्रतिज्ञा, लक्षणया शब्दप्रयोगः, उपचारकातन्त्रपदयोरेकतरपौनरुक्त्यम् । ये पुनः कातन्त्रशब्दस्य नानार्थकल्पनायां संशयमुत्पाद्य सार्ववर्मिकपदेन व्याख्यानं विशेषयन्तस्तत् त एव बुध्यन्ते, न तु मादृशाः" इति पञ्जिकाम् आक्षिपति । अत एव केचित् पठन्ति
त्रिलोचनो ह्यत्र समाधिलोचनो न दौर्गसिंहीयपदे मनो ददौ ।
यतस्तु मुख्यार्थ इहोपपयते ततः कथं स्याद् उपचारचातुरी ॥इति। अत्रोच्यते - भावसाधनं दर्शयता टीकाकृता सह विरोध इति यदुक्तं तदकिञ्चित्करमेव । न हि भावसाधनपक्ष एव कश्चिद् विशेषोऽस्ति करणसाधनपक्षे वा दोष इति, उक्तदोषाणामुद्धरिष्यमाणत्वात् । यत्तु न भावसाधन इति पञ्जीकृद् वक्ष्यति, तत्रापि शिरश्चालने नञ् प्रतिपत्तव्यः । नाप्यन्यवृत्तितुल्या प्रतिज्ञा, यावता सार्ववर्मिकसूत्रसम्बन्धाद् व्याख्यानम् अपि सार्ववर्मिकमिति यदुक्तं तदपि सूत्रकृत्तात्पर्यसम्बन्ध्यपीति प्रकटीकृतमिति । लक्षणया शब्दप्रयोगस्त्ववश्यं कर्तव्यः, लक्षणया यथा सूत्रकृत्तात्पर्यं प्रतीयते, न तथा मुख्यया वृत्त्या ।
तथा च आलङ्कारिकाः – “गङ्गायां घोषः इत्यत्र गङ्गापदेन 'तीराभिधाने यथा शैत्यपावनत्वादिकं प्रतीयते न तथा 'गङ्गातीरे घोषः' इत्यनेन । अन्यथा मुख्यवृत्त्यैव प्रयोगस्य प्रशस्तत्वाद् गौणवृत्तिकल्पना विफलैव" इति प्राहुः ।
१.
लक्षणावृत्तिबलेन । नागेशभट्टस्तु परमलघुमञ्जूषायां शक्तरेव प्रसिद्धाप्रसिद्धरूपं भेदद्वयं
मनुते । तदनुसारमप्रसिद्धशक्तिबलेनैव गङ्गापदेन तीराभिधानम् । २. व्यञ्जनावृत्तिबलेन ।