________________
सन्धिप्रकरणे प्रथमः सज्ञापादः
२९. एवं च सति न भावसाधन इति नजो निषेधार्थ एव । किञ्च भावसाधनपक्षेऽपि उपचारस्यानिवार्यत्वम्, तथाहि - व्याख्यानशब्देन स्वशिष्यबोधानुकूलव्यापारविशेष उच्यते - न ह्येकस्य सर्ववर्मजनितत्वं दुर्गसिंहजनितत्वं च संभवति ।अतोऽन्यथानुपपत्त्या सार्ववर्मिकपदेन तत्समानतात्पर्यकत्वं तत्समानजातीयत्वं वा लक्ष्यते इत्यवश्यं वाच्यम् । यच्चोपचारकातन्त्रपदयोरेकतर-पौनरुक्त्यमित्युक्तं तदप्यसङ्गतम्, सूत्रसंबन्धेनोपचारस्य सूत्रकृत्तात्पर्यविशेषोपलाभायोपादानात् कातन्त्रपदव्युत्पत्तिमहिम्ना प्रयोजनाभिधानार्थत्वाच्च । यच्च संशयम् उत्पाद्य व्याख्यानं विशेषयन्त इत्युक्तम्, तदप्यसङ्गतम् । कातन्त्रपदं हि आधुनिकसकेतितं तत्कथमस्य 'कौमार-व्याकरणे रूढित्वम् ? व्युत्पत्तिमहिम्ना जयदेवादिप्रोक्तस्यापि वाचकत्वात् । यच्चोक्तं त एव बुध्यन्ते न तु मादृशा इति, तेन काऽस्माकं हानिः ? रेन ह्ययं दर्पणस्यापराधो यदेनम् अन्धो न पश्यतीति जितं त्रिलोचनेन | ननु सार्ववर्मिकसूत्रसम्बन्धाद् व्याख्यानमपि सार्ववर्मिकम् इत्युक्तमस्ति । कोऽसौ संबन्ध इत्याह- वृत्तिकातन्त्रयोः इत्यादि । ननु कातन्त्रार्थविनिश्चयस्य पुरुषार्थत्वाभावात् कस्यचिदिह प्रवृत्तिर्न स्यादित्याह - परमार्थतः इत्यादि ।
[समीक्षा]
१. संस्कृतग्रन्थों में आशीर्वादात्मक, नमस्कारात्मक तथा वस्तुनिर्देशात्मक मङ्गलाचरण प्रसिद्ध हैं - "आशीर्नमस्क्रिया वस्तुनिर्देशो वापि मङ्गलम्" (का० आ० १।१४) । यहाँ टीकाकार आदि ने इनसे भिन्न तीन प्रकार के मङ्गल माने हैंकायिक-वाचनिक- मानसिक और प्रकृत ग्रन्थ में वाचनिक नमस्कार को ही उचित सिद्ध किया है । शिशुपालवध ग्रन्थ की निर्विघ्न परिसमाप्ति में यज्ञ - यागादि धर्म को कारण माना गया है, क्योंकि इसमें मङ्गलाचरण नहीं किया गया है ।
२. ग्रन्थ का विषय = शब्द, प्रयोजन या फल = शब्दव्युत्पत्ति या अर्थनिर्णय तथा सम्बन्ध = अभिधानाभिधेयभाव स्वीकार किया गया है। .
३. व्याख्याकारों ने प्रसङ्गतः महाभाष्य, श्लोकवार्तिक, कादम्बरी, शिशुपालवध तथा वासवदत्ता आदि ग्रन्थों के कुछ वचन उद्धृत किए हैं।
१. भगवतः कुमारस्यानुग्रहेण प्राप्तत्वात्, कुमार्या सरस्वत्या सहास्य सम्बन्धसत्त्वाच्च
कौमारम् । २. नैष स्थाणोरपराधो यदेनमन्धो न पश्यति । पुरुषापराधः स भवति । (नि०-अ०१ पा०५)।