________________
सन्धिप्रकरणे प्रथमः सज्ञापादः सूचीकटाहन्यायेन पूर्व सन्धिर्निगद्यते।
ततश्चतुष्टयः पश्चादाख्यातमिति सङ्गतिः॥ यद् वा - सन्ध्यादिक्रममादाय यत् कलापं विनिर्मितम् ।
'मोदकं देहि देवेति वचनं तन्निदर्शनम् ॥ ग्रन्थारम्भे विशिष्टशिष्टाचारपरिप्राप्ततया कृतम् इष्टदेवतानमस्कारं शिष्यान् शिक्षयितुमादौ निबध्नाति- प्रणम्येति । तथा च - 'सर्वत्रेप्सितकार्येषु नतिरादौ प्रशस्यते' इति । ____ अयमर्थः। सर्वं महादेवं ग्रन्थादौ प्रणम्य दुर्गसिंहोक्तायाः कातन्त्रवृत्ते१र्गपदान्यहं विवृणोमि | विवृणोमीति भविष्यत्सामीप्ये वर्तमाना (वर्तमानसामीप्ये वर्तमानवद् वा पा० ३।३।१३१), विवरिष्यामीत्यर्थः । प्रलयकाले यः सर्वान् हन्ति स सर्व उच्यते । आत्मनो न्यूनतां प्रतिपादयन्नाह - यथाप्रज्ञमिति । यद् वा भवतो दुर्गपदविवरणे का शक्तिरित्याह - यथाप्रज्ञम् इति । प्रज्ञा बुद्धिस्तस्या अनतिक्रमेणेत्यव्ययीभावे “वा तृतीयासप्तम्योः” (२।४।२) इति टा-स्थाने अम्भावः । विवरणक्रियाविशेषणमिति कश्चित् ।
ननु 'प्रयोजनमनुद्दिश्य न मन्दोऽपि प्रवर्तते' इति, तत् कथं दुर्गपदविवरणम् इत्याह – ‘अज्ञ' इत्यादि । अज्ञानां सम्यग् ज्ञानं तदेव हेतुः कारणं तेनेत्यर्थः । अथ कथमसौ नमस्क्रियते इत्याह - सर्वकर्तारम् इति । ननु कथमत्र सर्वेषां कर्तेति षष्ठीसमासः ? "तृचा च" (कात० परि० स० ९०) इत्यनेन श्रीपतिना निषिद्धत्वात् । तथा च 'ग्रामस्य गन्ता, कटस्य कर्ता' इति न समासः । न च तृन्प्रत्यये सति “न निष्ठादिषु" (२।४।४२) इत्यनेन षष्ठ्यां प्रतिषिद्धायां द्वितीयातत्पुरुषेण सिध्यतीति
'मोदकं देहि' इति वचने 'मोदकम्' इत्यत्र ‘मा+उदकम्' इति सन्धिः , पुनश्च 'मोदकम्' इति स्याद्यन्तपदम् । तदनु ‘देहि' इति क्रियापदम् । तदनुसारमेव कातन्त्रे सन्धि-नामचतुष्टय - आख्यात' इत्येतत्प्रकरणत्रयमुपनिबद्धमाचार्येण शर्ववर्मणा ।
_ 'मोदकं देहि' इति क्वत्यः पाठ इति नाहं वेद्मि । कथासरित्सागरे तु 'मोदकैर्देव! परिताडय' (१।६।११४) इति पाठ उपलभ्यते । २. प्रयोजनमनुद्दिश्य मन्दोऽपि न प्रवर्तते (मी०श्लो० वा०-सम्बन्धाक्षेपपरिहार - श्लो० ५५)।