________________
कातन्त्रव्याकरणम्
पुनरपगतसकलकरणवृत्तिरपराधीनज्योतिः करतलकलितकुवलयफलवदखिलमिदमनवरतमवलोकयति, तदा ताच्छील्यात् सर्वदर्शी भवति ।
कातन्त्रस्येति ।तत्रि कुटुम्बधारणे (९।१०१) चुरादाविनन्तः । तन्त्र्यन्ते व्युत्पाद्यन्ते शब्दा अनेनेति "स्वरवृदृगमिग्रहामल्" (४।५।४१) इति करणेऽल्प्रत्ययः । स चायमनेकार्थत्वाद् धातूनां व्युत्पादनेऽपि वर्तते, तेन तन्त्रमिह सूत्रम् उच्यते । ईषत् तन्त्रं कातन्त्रम् । कुशब्दस्य तन्त्रशब्दे परे "का त्वीषदर्थेऽक्षे" (२।५।२५) इति ईषदर्थे कादेशः । व्याख्यानम् इति । विशेषेणाख्यायतेऽनेनेति करणे युट् (४।५।९५)। व्याख्यानं वृत्तिग्रन्थ इति, तेन हि सूत्रं व्याख्यायते । नन्वीषत् तन्त्रं जयदेवादिप्रोक्तमप्यस्ति इत्याह - शार्ववर्मिकम् इति । शर्ववर्मणाचार्येण यत् कृतं तत् शार्ववर्मिकम् इति । कीतादित्वा इकण (२।६।८)।
ननु यदि व्याख्यानं वृत्तिग्रन्थस्तत् कथं शार्ववर्मिकमिति, इदानीं दुर्गसिंहेन क्रियमाणत्वात् ? सत्यमेतत्, किन्तु शर्ववर्मकृतसूत्रसम्बन्धाद् व्याख्यानमपि शार्ववर्मिकमित्युच्यते । तथाहि कातन्त्रशब्देन वृत्त्यादिकमपि तत्सम्बन्धाल्लोको व्यपदिशतीति । अत एव कातन्त्रसूत्रमिति षष्ठीसमासोऽपि सिद्ध इति । एतेन श्लोकार्द्धनाभिधानाभिधेयलक्षणः सम्बन्धोऽभिहित इति दर्शितम् ।
तथाहि कातन्त्रमभिधानम्, अभिधेयः शब्दः इत्यभिधानाभिधेयलक्षणः सम्बन्धः । प्रयोजनं च शब्दव्युत्पत्तिरेव । वृत्तिकातन्त्रयोरपि व्याख्यानव्याख्येयलक्षणः संबन्ध इति । अत एव व्याख्यानशब्दःकरणसाधनो न भावसाधन इति |प्रयोजनंच कातन्त्रार्थविनिश्चयः । परमार्यतस्तु शब्दव्युत्पत्तिरेव प्रयोजनम् । यस्मात् कातन्त्रार्थविनिश्चयेनापि शब्दा एव व्युत्पाद्यन्त इति स्थितम् ।
[क० च०] नत्वा शिवं कृतिकृताप्तनिबद्धसिन्धुमुन्मथ्य सूक्तिमयचारुपयःप्रबन्धम् । ज्ञात्वा गुरोविबुधवृन्दविनोदनाय कामं तनोति विकलकलापचन्द्रम् ॥ श्रीमत्रिलोचनकृताखिलपञिकायां दोषान्धकारनिकरं प्रतिपक्षदत्तम् । निःसार्य सत्पथगतेरपि दर्शकोऽयं कामं भविष्यति मदीयकलापचन्द्रः॥
श्रीवियाभूषणाचार्यसुषेणेन विनिर्मितः। आस्तां कलापचन्द्रोऽयं कालापानां मनोमुदे ॥