________________
सन्धिप्रकरणे प्रथमः सञ्ज्ञापादः
तत्र दीव्यन्तीति देवाः, “अच् पचादिभ्यश्च” (४।२ ।४८) इत्यच् । न चात्र नाम्युपधत्वाद् बाधकस्य कप्रत्ययस्य प्रसङ्गः । तत्राविधौ पचादिग्रहणं बाधक - बाधनार्थमिति वक्ष्यति। एवमपरोऽपि देवशब्दो व्युत्पाद्यः । प्रणम्येतिप्रपूर्वान्नमः (ण्णमः) "एककर्तृकयोः ०" ( ४ । ६ । ३) इत्यादिना कृतस्य क्त्वाप्रत्ययस्य " समासे भाविनि” (४।६।५५) इत्यादिना यबादेशः । आदावित्याङ्पूर्वाद् ददातेः “उपसर्गे दः किः " ( ४ | ५ | ७० ) इति भावे किप्रत्ययः । सर्वज्ञम् इति । सर्वं जानातीति " आतोऽनुपसर्गात् कः” (४।३।४) इति कप्रत्ययः । सर्वदर्शिनम् इति । सर्वं द्रष्टुं शीलमस्येति “नाम्न्यजातौ णिनिस्ताच्छील्ये" ( ४ | ३ |७६) इति णिनिः । तत्रायमर्थः - दीव्यतीति देवाः प्रतिनियतविश्वव्यापारास्तपोविधानादिना लब्धमाहात्म्याः पुरन्दरादयः । यः पुनरनियतविश्वव्यापारः सदा समुदितमाहात्म्यः पुरन्दरादीनपि निर्माय स्वधर्मानुविधानेन प्रतिनियतेषु विश्वव्यापारेषु नियुङ्क्ते, स देवानां देवो भगवानीश्वरः । सम्बन्धलक्षणा चेयं षष्ठी समस्यते । स हि भगवांस्तेषामाराध्यतया सम्बन्धीभवति । न तु निर्धारणे, तत्र षष्ठीसमासप्रतिषेधात् । ( द्र०, कात० परि० सूत्रम् - “निर्धार्यपूरणाभ्याम्” सं० ९३) । तमित्थम्भूतं देवानामपि देवं सर्वज्ञं सर्वदर्शिनं शास्त्रादौ प्रणम्य कातन्त्रस्य व्याख्यानं प्रवक्ष्यामीति सम्बन्धः । प्रणम्येति प्रशब्देन प्रकर्षार्थो द्योत्यते, अन्यथा प्रियतमादावुपहासपरोऽपि नमस्कारः संभवतीति । अथात्र सर्वज्ञं सर्वदर्शिनमिति द्वयोः पदयोरुपादानं किमर्थम् ? न ह्यनयोरर्थभेदमुपलभामहे, दृशेरपि ज्ञानंवचनत्वात् |
-
अथ सर्वं द्रष्टुं शीलमस्येति ताच्छील्यार्थो भिद्यते इति चेत्, नैवम् । ताच्छील्यं हि फलनिरपेक्षा प्रवृत्तिः । सा सर्वज्ञपदेनाप्यर्थतः कथ्यते, न हि सर्वं जानन् किमप्यभिलषति, अपि तु शीलमिदमस्य भगवतः, यदुत सर्वं जानातीति नार्थो भिद्यते । नैतदेवम् | पदद्वयोपादानद्वारेणावस्थाद्वयेऽपि तस्य भगवतो नमस्कार इति दर्शयति । तथा ह्यर्वाचीनं पदमध्यासीनः खल्वसौ भगवान् अधिष्ठितकरणग्रामः = करणाधीनज्ञानः प्रत्यक्षादिभिरेव प्रमाणैः सर्वं जानातीति न तदा ताच्छील्यम् । प्रत्यक्षादिप्रमाणायत्तप्रकाशकत्वात्तस्येति ।
यद्येवम्, कथमस्मदादिभ्यो विशिष्यते 'भगवानिति चेद् ? नैवम् । अव्याहतप्रमाणत्वाद् भगवतः । नहि तस्य प्रत्यक्षादीनि प्रमाणानि क्वचिदपि व्याहन्यन्ते । यदा
१.
उत्पत्तिं च स्थितिं चैव लोकानामगतिं गतिम् ।
वेत्ति विद्यामविद्यां च स वाच्यो भगवानिति ॥ ( द्र०, उ०रा०च० - चन्द्रकला टीका ११९, , पृ०१६)।