________________
कातन्त्रव्याकरणम्
क्वचिन्नमस्कारसाध्यः, क्वचिद् यागादिसाध्यः । यत्र च नमस्कारो नास्ति तत्रान्यसाधनसाध्यो भविष्यति ।
कथं चैतद् व्यज्ञासीद् भवान् ? यदुत 'शिशुपालवधादौ नमस्कारो नास्तीति । अश्रूयमाणत्वादिति चेद्, न | तस्य मनःकायाभ्यामपि सम्भवात् । यच्चोक्तम् – सम्बन्धाद्यभिधानमवद्यमप्रस्तुतत्वाद् इति, तदेवानवद्यं तस्यैव प्रस्तुतत्वात् । शास्त्रं हि परार्थं प्रणीयते । परश्च शास्त्रे क्वचित् कर्मणि वा प्रवर्तमानो विदितसंबन्धप्रयोजन एव प्रवर्तते न तु व्यसनितया । तथा चोक्तम् -
सर्वस्यैव हि शास्त्रस्य कर्मणो वापि कस्यचित् । यावत् प्रयोजनं नोक्तं तावत् तत् केन गृह्यताम्॥
(श्लो० वा०- प्रतिज्ञासूत्रीयः श्लोकः १२) इति । न चैतन्न शक्यते वचनशतेनापि प्रतिपादयितुमनधीतशास्त्रस्य, वचनादर्थाधिगतेः । वचनाद्धि प्रयोजनादिकमवधार्य प्रवर्तते, प्रवृत्तस्य च साक्षात् प्रतिपत्तिर्भवति, तस्मादादौ प्रवृत्त्यङ्गत्वात् प्रयोजनादिकं वक्तव्यम् । तदुक्तम् -
सिद्धार्थ सिद्धसम्बन्धं श्रोतुं श्रोता प्रवर्तते। शास्त्रादौ तेन वक्तव्यः संबन्धः सप्रयोजनः॥
(श्लो० वा० - प्रतिज्ञासूत्रीयः श्लो० १७) इति । ननु च काय-वाङ्-मनोव्यापारजन्मा नमस्कारस्त्रिधा सम्भवति, पुनश्चतुर्धा, मानसिकस्य द्वैविध्यात् । एकः संकल्पवशादनपास्तेतरव्यापारस्यापि पुरुषस्य तदेकाग्रतालक्षणः, अन्यश्च व्यावृत्तसकलेन्द्रियवृत्तिः केवलमनोव्यवलोक्यमानतत्त्वैकरूपः समतालक्षणः । तत् 'केनाभिप्रायेण वाचनिकमेव नमस्कारम् अकार्षीद् वृत्तिकारः' इति न देश्यम्, कायमनोव्यापारजन्मनोऽपि नमस्कारस्यासत्त्वप्रतिपादने प्रमाणाभावेनावधारणस्यानुपपत्तेः । अथवा वाचनिकशास्त्रप्रस्तावाद् नमस्कारोऽपि वाचनिक एव युज्यते, किमत्र नमस्कारान्तरपरिकल्पनयेति स्थितम् ।
१. महाकविमाघेन 'शिशुपालवध' नामकं महाकाव्यं प्रणीतम् । २. संस्कृतवाङ्मये सामान्यतया आशीर्वादात्मको नमस्कारात्मको वस्तुनिर्देशात्मकश्चेत्येतत्रिविधो
मङ्गलविधिरङ्गीक्रियते, न तु कायवाङ्मनोव्यापाररूपः ।ग्रन्थेषु शब्दानां वाङ्मात्रविषयत्वात् ।